SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुच्छक ११३ विनयपर ! यथा महानुभावा स्त्वमपि तथा खलु सिद्धये प्रयाहि ॥६५॥ ॥ इति प्रमथो द्वारपालः शमः॥ शमामृतेत्यादि । स्पष्टम् ॥६१-६५|| यद्यपि शमादिषु चतुर्पु एकेनान्य आक्षिप्यत इत्युक्तप्रायम् । तथापि सति शमे निर्बावो विचार उदेतीति प्रक्रियामाश्रयन् दशभिर्विचाराख्य द्वितीय द्वारपाल प्रपञ्चयति शास्त्रावबोवभासिन्या धिया परमशुद्धया । कर्तव्यः कारणजेन विचारोऽनिशमात्मनः ॥६६॥ शास्त्रावरोधेति । स्पष्टम् ॥६६॥ विचाराद् वदते शास्त्रे नयते तत्त्वमञ्जसा । आमयत्यन्तरे तच्च क्रमतेऽत्र निरन्तरम् ॥१७॥ विचारादिति । वदते इत्यत्र-'भासनोपसभाषा-' (पा० सू० १।३।४७ ) इत्यनेन, नयते इत्यत्र-'समाननोत्सञ्जनाचार्य- (पा० सू० १।३।३६) इत्यनेन, क्रमते इत्यत्र-'वृत्तिसर्गतायनेषु क्रम' (पा० सू० ११३।३८ ) इत्यनेन चात्मनेपदानि विशेषप्रतिपत्तये द्रष्टव्यानि ॥१७॥ शक्तिधृतिः स्मृतिज्ञप्तिः प्रतिपत्तिः क्रिया फलम् । फलन्त्येतानि सर्वाणि विचारेणैव धीमताम् ॥८॥ शक्तिरिति । शक्ति सामर्थ्यम् । धृति वैर्यम् । स्मृति स्मरणम् । ज्ञप्ति ज्ञानम् । प्रतिपत्ति स्फूर्ति । क्रिया अनुष्ठानम् । फल निष्पत्ति । फलति निष्पधन्ते ॥६॥ जडाजडपरिज्ञानं नेयार्थपरिवर्तनम् । विचारप्लसमाश्रित्य तरेत् ससारसागरम् ॥६६॥ जडाजडेति । नेयार्थ प्रतिषिद्धार्थ । विचार एव तारकत्वात् प्लव ||६६||
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy