________________
११२
दशकण्ठववम् गच्छतेत्यादि । गच्छतेत्यादिना देशकालपात्रनिबन्धनो वैषम्याभावो दर्शित । इहापि परमार्थे वस्तुनि सुरासुरसघर्षानवकाशेन कक्षाविभाग सुदूरमुदस्त ॥८७-८८॥
हृत्कुशेशयकोशेषु येषा शमकुशेशयम् ।
ते पद्मापतिवद् वन्द्या द्विहृत्पद्मा मनीषिणः ॥८६॥ हृत्कुशेशयेति । एव योगमास्थिता सुरा वा असुरा वा इतरे वा निर्विशेप प्रशस्यन्ते । अहो । येषा हृदयमेवारविन्द तत्र विश्रान्तो शम एवारविन्दम्- ते रागद्वेषबहिभूता एकरसा महात्मानो वैलक्षण्येन द्विहृत्पद्मा इव लक्ष्यमाणा पद्मापतिपद्मनाभसमुद्भूतपद्मासनवत् कथमिव न स्पृहणीया इत्यर्थं ॥८६॥
सौहार्दहृद्य सर्वत्र शमपीयूषवर्षिणि ।
सुजने परम तत्त्व स्वयमेव प्रसीदति ।।६०॥ सौहार्देति । इत्यनेन परतत्त्वस्य विश्रान्तिस्थान दर्शितम् ॥६०॥ एतदेव शमपुरस्कारेण प्रपञ्चयति
शमामृतरसाच्छन्न मनो यामेति निवृतिम् । छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ! ॥६१॥ यः समः सर्वभूतेषु भावि काड्क्षति नोज्झति । जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥२॥ बुद्ध गापि शुद्धया बुद्ध्या यथैवान्तस्तथा बहिः । निमल वर्तमानो य स शान्त इति मन्महे ॥१३॥ शमसपन्नवृत्तीना सर्वत्र समदर्शिनाम् । उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव हिमदीवितेः ॥६४॥ शमममृतमहार्यमार्यगुप्त
दृढमवलम्ब्य पर पद प्रयाताः ।