________________
तृतीयो गुच्छक
१११ सन्त उदिता इव आत्मसाम्राज्यलीना इव विचरन्ति व्यवहरन्ति ।।शा आत्मसाम्राज्यविलीनत्वमेव द्वाभ्या प्रपञ्चयति
न शोचन्ति न पाञ्छन्ति न याचन्ति शुभाशुभम् । सर्वमेपात्र कुर्वन्ति न कुर्वन्ति मनागपि ।।२।। स्वच्छ दीव्यन्ति तिष्ठन्ति विरमन्ति निराधयः ।
हेयोपादेयसबाधवर्जिताः स्वात्मनि स्थिताः ॥३॥ न शोचन्तीन्यादि । हेयोपादेयसबाधवर्जिता- अग्राह्यग्राह्यविचिकित्साभ्या य सबाध मुग्धभार तेन वर्जिता अपराभूता । विदितवेदितव्या इत्यर्थ ॥२ ८३॥
निरापाय निरातङ्क निभ्रम स्वास्थ्यवैभवम् ।
न पिना केवलीभागाद् भासते भुपनत्रये ॥८४॥ निरपायमिति । केलीभाव कैवल्यम् । आत्मस्वरूपेणारस्थानमित्यर्थ ॥४॥
प्राप्तमेतत्पद तात ! न बाह्य साधन मतम् ।
केवल पौरुषारब्ध श्रवणाद्य व सततम् ॥८॥ प्राप्तमिति । श्रवणादि श्रवण मनन निदिध्यासन च ।।५।।
तत्समस्तसुखासारसीमान्तमिति शस्यते ।
तदेवामन्दनिष्पन्द रसायनमपीष्यते ॥८६॥ तत्समस्तेति । अत्र- एतस्यवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्नि सा काष्ठा सा परागति' इत्यादि श्रुतयो जाग्रत्येव ॥८६॥
गच्छता तिष्ठता वापि भ्रमता पततापि वा । असुरेण सुरेणापि मानुषेणेतरेण वा ॥८७॥ मनः प्रशमनोद्भूत तदवाप्य महत्सुखम् । पचेलिम फल विद्यात् सद्विवेकफलेग्रहे ॥८८॥ युग्मकम्)