Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
तृतीयो गुच्छक
११३ विनयपर ! यथा महानुभावा
स्त्वमपि तथा खलु सिद्धये प्रयाहि ॥६५॥
॥ इति प्रमथो द्वारपालः शमः॥ शमामृतेत्यादि । स्पष्टम् ॥६१-६५|| यद्यपि शमादिषु चतुर्पु एकेनान्य आक्षिप्यत इत्युक्तप्रायम् । तथापि सति शमे निर्बावो विचार उदेतीति प्रक्रियामाश्रयन् दशभिर्विचाराख्य द्वितीय द्वारपाल प्रपञ्चयति
शास्त्रावबोवभासिन्या धिया परमशुद्धया ।
कर्तव्यः कारणजेन विचारोऽनिशमात्मनः ॥६६॥ शास्त्रावरोधेति । स्पष्टम् ॥६६॥
विचाराद् वदते शास्त्रे नयते तत्त्वमञ्जसा ।
आमयत्यन्तरे तच्च क्रमतेऽत्र निरन्तरम् ॥१७॥ विचारादिति । वदते इत्यत्र-'भासनोपसभाषा-' (पा० सू० १।३।४७ ) इत्यनेन, नयते इत्यत्र-'समाननोत्सञ्जनाचार्य- (पा० सू० १।३।३६) इत्यनेन, क्रमते इत्यत्र-'वृत्तिसर्गतायनेषु क्रम' (पा० सू० ११३।३८ ) इत्यनेन चात्मनेपदानि विशेषप्रतिपत्तये द्रष्टव्यानि ॥१७॥
शक्तिधृतिः स्मृतिज्ञप्तिः प्रतिपत्तिः क्रिया फलम् ।
फलन्त्येतानि सर्वाणि विचारेणैव धीमताम् ॥८॥ शक्तिरिति । शक्ति सामर्थ्यम् । धृति वैर्यम् । स्मृति स्मरणम् । ज्ञप्ति ज्ञानम् । प्रतिपत्ति स्फूर्ति । क्रिया अनुष्ठानम् । फल निष्पत्ति । फलति निष्पधन्ते ॥६॥
जडाजडपरिज्ञानं नेयार्थपरिवर्तनम् ।
विचारप्लसमाश्रित्य तरेत् ससारसागरम् ॥६६॥ जडाजडेति । नेयार्थ प्रतिषिद्धार्थ । विचार एव तारकत्वात् प्लव ||६६||

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166