Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 113
________________ तृतीयो गुच्छक १०७ तेनामर्तेति । अमूर्तस्य तत एव व्यवहारदशाया कल्पितस्य जात्याकृति व्यक्त्याख्यपदार्थातिक्रान्तस्य चिद्वस्तुन सगराहित्यात् प्रतिपादित साधु सघटत इति तात्पर्यम् ॥६॥ ॥ इति देवनिराकरणसमर्थनम् ।। भगवन् । यल्लोकेषु प्रतिष्ठित तद् दैव नाम फिमिति राघवेण पृष्टो वसिष्ठो व्याख्यत-अङ्ग ! अबन्ध्येन पौरुषेण सपादिता शुभाशुभार्थसपत्तिः इष्टानिष्टवस्तूपपत्तिा, अनुष्ठितस्य कर्मणः फलप्राप्ताविदमित्थ स्थितमित्युक्तिः एव मम मनिर्निश्चयश्चेत्युक्तिः इदमस्य बोधकमित्यनाश्वासनपाचोयुक्तिर्या देवमित्याहुः । भगवन् ! यत्खलु पूर्वकर्मोपार्जित जगति दैव दैनमिति व्यपदिश्यते तदेकान्ततो भाता किमपमृश्यत इति तेन पृष्टः स पुनराख्यत-अङ्ग ! साधूच्यते-॥६१॥ भगवन्निति । प्राणिनस्तेषामावासा इति द्विविधो लोकपदार्थो द्रष्टव्य । तत्र "अधिष्ठान तथा कर्ता करण च पृथग्विधम् । विविधाश्च पृथक् चेष्टा देव चैवात्र पञ्चमम् ॥” गीता इत्यादौ परसाचिव्येन दत्तहस्तावलम्ब दैवारय वस्तुव्यक्तमेव ॥६॥ या मनोवासना पूर्व जजागार निरर्गला । सैवेयं कर्मभावेन लोके परिणति गता ॥६२॥ यद्वासनो हि पुरुषस्तत्कर्तेष प्रजायते । नान्यभावोऽन्यकर्मा स्याद् दैव कर्म पुराकृतम् ।।६३॥ इत्थ कर्मस्थकर्माणि कर्म प्रौढा स्ववासना । वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥६४॥ मनश्चित्त पासना च कर्म दैव च निश्चयः । राम ! दुनिश्चयस्यैताः सज्ञाः सद्भिरुदाहृताः ॥६॥

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166