Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 48
________________ ४० दशकण्ठववम् देव ! महाराज | किं किमर्थम् । उत्ताम्यसि खिद्यसे । अवग्रहो वृष्टिप्रतिबन्ध स एव ग्रह व्यथक , तेन निगृहीतेषु ग्रस्तेषु । राज्ञो रोमपादस्य तदाख्यनृपते । जनपदेषु देशेषु । अगषु तदारयेषु । सुवाधारानुकारया पीयूपपूरप्रतिमया । वृष्टिसृष्ट्या वर्षासर्गेण । दृष्ट परीक्षित , ब्रह्मवर्चसस्य ब्राह्मण्यस्य, महिमा प्रभाव , यस्य तादृश । शान्तासखस्य शा तापते । विभाण्डकसूनो विभाण्डकास्यमहर्षिपुत्रस्य । ऋष्यशृङ्गस्य ऋष्यशृङ्गनाम्नो महर्षे । प्रभावेण शुभाशसनेन तव भवत । पुत्रा सूनव । जनिष्यन्ते उत्पत्स्यन्ते ।' इति इत्थभूतम् । भगवता सनत्कुमारेण ब्रह्मतनयेन कथितम् आदिष्टम् । पुराणवृत्त चिरतनवृत्तान्तम् । कथयाचक्रे वर्णितवान् । सोऽपि दशरथ । सुमना तवृत्तश्रवणेन सुमना हर्षमाण । यियक्षन् यष्टुमिच्छन् । वसिष्ठशिष्टया कुलगुरोर्नसिष्ठस्याज्ञया । रोमपादस्य जामातरम् प्यशृङ्गम् । रोमपादो हि ऋष्य शृङ्गप्रभावादभिमता वृष्टिं समविगत्य परितुष्ट तस्मै महर्पये स्वात्मजा शान्ता दत्तवानिति कथा रामायणादितोऽ सधेया। सशान्तादार शान्तया दाराभि सह वर्तमानम् । वैभाण्डकिं विभाण्डकस्यापत्यम् ऋष्यशृङ्गम् । महातेजस लोकोत्तरप्रभावम् । अयोध्या पुरम् अल कृता तदागमनहर्षेण परिष्कृताम् । अनेष्ट आनीतवान् ।।४७॥ ततश्च यथावसर प्रत्यग्रोत्फुल्लपृथुलकमलिनीपटलाटोपपाटलायमानगाटिकापर्यन्ते, नूतनोन्निद्रसहकारमञ्जरीमधुरसास्वादमुदितमधुकरपुञ्जगुञ्जिनदिड्मुखे, नेकविधविटपिविटपाभोगनिर्यत्पुष्पपरागपरीतसचरे, विकचकुसुमसौरभासारनीरन्त्रितरोदसीके, वसन्तावतारे, सरयूनरतीरे यथाकल्पपरिक्लृप्ताया, प्रयत्नोपकल्पितवैतानिकसामग्रीसभृताया, सगौरववितीर्यमाणवस्तुजाताया, यथाक्रमसपाद्यमानसपनसतानाया, व्याप्रियमाणऋत्विक्प्रकाण्डाया, जाज्वल्यमानाऽग्निशरणायाम्, एकविशतियूपोच्छायाया, यथाशासनानीताश्यरत्नपुरस्सर पशुपरिष्कृताया,यज्ञभूमी, भगवद्वसिष्ठऋष्यशृङ्गादेशमनुवर्तमानो गृहीतदीक्षः सपत्नीको विरराज महाराजः॥४८॥ तत इति । ततश्च अनन्तरम् । यथावसर यथासमयम् । प्रत्यग्रोत्फुल्ला

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166