________________
४०
दशकण्ठववम् देव ! महाराज | किं किमर्थम् । उत्ताम्यसि खिद्यसे । अवग्रहो वृष्टिप्रतिबन्ध स एव ग्रह व्यथक , तेन निगृहीतेषु ग्रस्तेषु । राज्ञो रोमपादस्य तदाख्यनृपते । जनपदेषु देशेषु । अगषु तदारयेषु । सुवाधारानुकारया पीयूपपूरप्रतिमया । वृष्टिसृष्ट्या वर्षासर्गेण । दृष्ट परीक्षित , ब्रह्मवर्चसस्य ब्राह्मण्यस्य, महिमा प्रभाव , यस्य तादृश । शान्तासखस्य शा तापते । विभाण्डकसूनो विभाण्डकास्यमहर्षिपुत्रस्य । ऋष्यशृङ्गस्य ऋष्यशृङ्गनाम्नो महर्षे । प्रभावेण शुभाशसनेन तव भवत । पुत्रा सूनव । जनिष्यन्ते उत्पत्स्यन्ते ।'
इति इत्थभूतम् । भगवता सनत्कुमारेण ब्रह्मतनयेन कथितम् आदिष्टम् । पुराणवृत्त चिरतनवृत्तान्तम् । कथयाचक्रे वर्णितवान् । सोऽपि दशरथ । सुमना तवृत्तश्रवणेन सुमना हर्षमाण । यियक्षन् यष्टुमिच्छन् । वसिष्ठशिष्टया कुलगुरोर्नसिष्ठस्याज्ञया । रोमपादस्य जामातरम् प्यशृङ्गम् । रोमपादो हि ऋष्य शृङ्गप्रभावादभिमता वृष्टिं समविगत्य परितुष्ट तस्मै महर्पये स्वात्मजा शान्ता दत्तवानिति कथा रामायणादितोऽ सधेया। सशान्तादार शान्तया दाराभि सह वर्तमानम् । वैभाण्डकिं विभाण्डकस्यापत्यम् ऋष्यशृङ्गम् । महातेजस लोकोत्तरप्रभावम् । अयोध्या पुरम् अल कृता तदागमनहर्षेण परिष्कृताम् । अनेष्ट आनीतवान् ।।४७॥
ततश्च यथावसर प्रत्यग्रोत्फुल्लपृथुलकमलिनीपटलाटोपपाटलायमानगाटिकापर्यन्ते, नूतनोन्निद्रसहकारमञ्जरीमधुरसास्वादमुदितमधुकरपुञ्जगुञ्जिनदिड्मुखे, नेकविधविटपिविटपाभोगनिर्यत्पुष्पपरागपरीतसचरे, विकचकुसुमसौरभासारनीरन्त्रितरोदसीके, वसन्तावतारे, सरयूनरतीरे यथाकल्पपरिक्लृप्ताया, प्रयत्नोपकल्पितवैतानिकसामग्रीसभृताया, सगौरववितीर्यमाणवस्तुजाताया, यथाक्रमसपाद्यमानसपनसतानाया, व्याप्रियमाणऋत्विक्प्रकाण्डाया, जाज्वल्यमानाऽग्निशरणायाम्, एकविशतियूपोच्छायाया, यथाशासनानीताश्यरत्नपुरस्सर पशुपरिष्कृताया,यज्ञभूमी, भगवद्वसिष्ठऋष्यशृङ्गादेशमनुवर्तमानो गृहीतदीक्षः सपत्नीको विरराज महाराजः॥४८॥
तत इति । ततश्च अनन्तरम् । यथावसर यथासमयम् । प्रत्यग्रोत्फुल्ला