________________
प्रथमो गुच्छक केकयस्य राज्ञोऽपत्य स्त्री कैकेयी । 'जनपदशब्दा-क्षत्रियादब्' (पा० सू० ४।१।१६८ ) 'केकयमित्रयुप्रलयाना यादेरिय' (पा० सू० ७।३।२) 'टिड्ढाणद्ध यसउदघ्नमात्रच्तयाठकठकवरप' (पा० सू० ४।१।१५) इति डीप् । सुमित्रा शोभन मित्र यस्या सेति समास । शोभनेन मित्रेण सहितेति वा । शोभनत्व च दाम्पत्यरूपेण मधुरसबन्धेन इति । परस्परेषा परस्परेषु वा अनुग्रह यस्या तथाभूता । वेदाना ऋग्यजु सामाथर्वणा त्रयीव । त्रयोऽवयवा ऋग्यजु साम लक्षणा यस्या सा त्रयी। आथर्वणेऽपि रचनात्रैविध्यस्य सत्त्वान्नाव्याप्तिरिति सूक्ष्मेक्षिकया द्रष्टव्यम् । धाम्ना सौरचान्द्रमसाग्नेयाना त्रयीव । लोकाना भूर्भुव स्वर्लक्षणाना भूभ्यन्तरिक्ष दिव्याना वा श्रुतिस्मृतिप्रसिद्धाना त्रयीव । महिषीणा कृताभिषेकाणा त्रयी । आसीत् । अस्ते कर्तरि लड् । अभवत् ।।४६॥
यथासमयमुपासितामपि निष्फलव्यवसिता गार्हस्थ्यगहोमयीमिव महिषीत्रयी चिन्तयमाने चिन्तापरिष्यन्दमन्दिमानमुपेयुषि पुत्रार्थमश्यमेधक्रतुमाचरितुकामे भूशतक्रतौ मन्त्रिमतल्लिका सुमन्त्रोऽमुष्मै
'देव । किमुत्ताम्यास, अवग्रहग्रहनिगृहीतेषु राज्ञो रोमपादस्य जनपदेवगषु सुवाधारानुकारया वृष्टिसृष्ट्या दृष्टब्रह्मवर्चसमहिम्नः शान्तासखस्य विभाण्डकसूनोऋष्यशृङ्गस्य प्रभावेण तव पुत्रा जनिष्यन्ते।'
इति भगवत्सनत्कुमारकथित पुराणवृत्त कथयाचक्रे । सोऽपि सुमना यियक्षन् वसिष्ठशिष्टयाऽनेष्ट रोमपादजामातर सशान्तादार वैभाण्डकि महातेजसमयोध्यामलकृताम् ॥४७॥
यथेति । यथासमय यथा ऋतुकालम् । उपासिता निषेविताम् अपि । निष्फलम् अदृष्टप्रसव व्यवसित प्रयतन यस्या तथोक्ताम् । गृहस्थस्य कर्म गार्हस्थ्य तदेव शोच्यत्वात् गर्दा, तन्मयीमिव । महिषीणा राज्ञीना त्रयीम् । चिन्तयमाने अनुशोचति । चिन्ता अनपत्यताजन्यव्यथेत्यर्थ । तस्या परिष्यन्देन प्रस्रवणेन मन्दिमान मन्दताम् । उपेयुषि गतवति । पुत्रार्थ सतानाय । अश्वमेधक्रतु तदाख्य श्रौतमध्वरम् । आचरितुम् अनुष्ठातु कामो यस्य तादृशे । भूशतक्रतौ महीन्द्र । मन्त्रिमतल्लिका प्रशस्तो मन्त्री । सुमन्त्र अन्वर्थनामा । अमुष्मै दशरथाय