________________
३८
दशकण्ठवधम् ज्याछेदो हर । परगुणच्छेद इति व्यवहारो ज्योतिषसिद्धान्तस्कधे सूर्यसिद्धा न्तादौ । न वामोवाक्ये उक्तिप्रत्युक्तिप्रस्तावे परेषा पराणा वा गुणाना छेद खण्डनमिति । अलकाराणा शब्दार्थोभयलक्षणाना भाववरणव्युत्पन्नानाम् आक लन मीमासन साहित्ये काव्यप्रकाशादिसाहित्यशास्त्रे । न अक्षदर्शके व्यावहा रिकपदे अल काराया ब वनालयस्य कलनम् अभियुक्तकृते विवेचनमिति । कृष्णस्य भगवतो देवकीनन्दनस्य चरितमितिवृत्त पुराणे ब्राह्मादौ । न नागरे पौरे कस्यचिदपि कृष्ण मलीमस चरित वृत्तमिति । 'अश्रावि' इति प्रत्येकमन्वेति । शृणोते कर्मणि लुड् ॥४५॥
यस्य च कनकलतिकेव न कठोरा, तारकेन न वासरधूमरा, क्षणप्रभेव न क्षणप्रभा, तरङ्गिणी लावण्यपूराणा, जन्मजगती मदनविभ्रमाणा, चन्द्रशाला सुकृतपिलासाना, रोहणस्थली पातिव्रत्यमाणिक्याना, कोमल्या कैकेयी सुमित्त्रेति परस्परानुग्रहा वेदत्रयीव धामत्रयीव लोकत्रयीव महिषीत्रग्यासीत् ।
यस्येति । यस्य च राज्ञो दशरथस्य । कनकलतिकेव स्वर्णवल्लीव न कठोरा न कठिना शरीरत स्वभावतश्च । कनकलतिका तूभयतस्तादृशीति व्यतिरेक । एव तारकेव न वासरधूसरा, केवल नक्तमेव जाग्रती अपितु नक्तदिव प्रकाशमाना। क्षणप्रभेव चपलेव न क्षणप्रभा कितु स्थिरकान्ति । तरङ्गिणी स्रोतस्वती, लावण्य प्राग्व्याख्यात तत्सूराणा प्रवाहाणाम् । जन्मजगती उत्पत्तिस्थान मदनविभ्रमाणा मन्मथविलासानाम् । चन्द्रशाला शिरोगृह सुकृतविलासाना पुण्यपरिष्काराणाम् । रोहणस्थली जन्मभूमि । पति व्रत अस्या पत्यौ व्रत अस्या इति वा पतिव्रता । साच
'आर्तेि मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता । सुप्ते पश्चाच्च या शेते पूर्वमेव प्रबुध्यते ।
नान्य कामयते चित्ते सा स्त्री ज्ञेया पतिव्रता ।।' एवभूता । तस्या भाव एव माणिक्यानि रत्नविशेषा तेषाम् । कोसलस्य राज्ञ अपत्य स्त्री कौसल्या । 'वृद्धत्कोसलाजादायड्' (पा० सू० ४।१।१७१) 'यङश्चाप्' (पा० सू० ४।१।७४ ) सूत्रनिर्देशात् कोसलशब्दो दन्त्यसकारमध्य ।