________________
प्रथमो गुच्छक इति । विधुरो इतिकर्तव्यताविकलो लोको न । 'व्यलोकि' इति सर्वत्रान्वेति
॥४४॥
यस्मिश्च चक्रवर्तिनि प्रकृति पातयति, छलप्रसङ्गो न्याये, न व्यवहारे, पदाथकल्पनालाघव वैशेषिके, न प्राघुणिकसत्कारे, विकारोदय सोख्ये, न सख्यावन्मानसे, प्राणनिग्रहो योगे, न नियोगे, आथीभावना मीमासायाम्, न नैष्ठिकेषु, मायावादो वेदान्ते, न प्रजासु, प्रत्ययलोपो व्याकरणे, न प्रतिज्ञातप्रदाने, परगुणच्छेदो ज्याचाप गणिते, न वाकोनाक्ये; अलकाराकलन साहित्ये, नाक्षदर्शके, कृष्णचरित पुराणे, न नागरेऽश्रावि ॥४॥
यस्मिन्निति । यस्मिंश्च दशरथे। चक्रे भूमण्डले राजमण्डले वर्तितु वा चक्र सैन्य वर्तयितु शीलमस्येति चक्रवर्ती । 'सुष्यजातौ णिनिस्ताच्छील्ये' (पासू० ३।२।७८) अवश्य चक्र वर्तयतीति तु-आवश्यके णिनि । तस्मिन् चक्रवर्तिनि सार्वभौमे । प्रकृति प्रजामण्डल पालयति रक्षति सति । छलस्य चतु दशस्य पदार्थस्य, प्रसङ्ग प्रसञ्जनम् । न्याय प्रमाणादिषोडशपदार्थीप्रतिपादके गौतमोपज्ञे दर्शने । न व्यवहारे अष्टादशधा विभक्त व्यवहारपदे छल कपटमिति । पदार्थाना पारिभाषिकाणा कल्पनया लाघव तन्त्रान्तरापेक्षया गौरवनिरास । वैशेषिके सप्तपदार्थीप्रतिपादके कणादोपज्ञे दर्शने । न प्राघुणिकानाम् आगन्तुकाना सत्कारे शुश्रूषाया पदस्य व्यवसितादे अर्थस्य धनस्य कल्पनाया योजने लाघव सकोच इति । विकारस्य षोडशकगणस्य उदय उद्गम साख्ये कपिलोपज्ञे दर्शने । न सख्यावता पण्डिताना मानसे हृदयक्रोडे विकारस्य कामादिषडूमिविकृतेरुदय इति । प्राणानाम् असूना निरोधो योगे पातञ्जलदर्शने । न नियोगे राजकीयाज्ञाया प्राणाना निग्रहो बाध इति । आर्थी लिडाधु पस्थाग्या भावना प्रवर्तना मीमासाया त्रयीव्यवस्थापकशास्त्रे जैमिनिसकलिते । न नैष्ठिकेषु ब्रह्मचारिविशेषेषु आर्थी धनसबन्धिनी भावना चिन्तेति । मायाया वाद अवतार' अस्मान्मायी सृजते विश्वमेतदित्यादिप्रक्रियाप्रपञ्चिते वेदान्ते उपनिषत्प्रमाणे शास्त्रे पाराशर्यसकलिते । न प्रजासु प्रकृतौ मायया वादो व्यवहारकल्पनेति । प्रत्ययस्य स्वादे लोप अदर्शन व्याकरणे पाणिनितन्त्रे । न प्रतिज्ञातस्य वस्तुन प्रदाने वितरणे प्रत्ययस्य विश्वासस्य लोप खिलीकार इति । परगुण राशित्रयस्य