________________
दशकण्ठववम् नो सत्कारपराङ्मुखो न विधुरो लोको व्यलोकि क्वचि
द्यस्मिन्नात्मजनिर्विशेषमवनीनाथे प्रजा रक्षति ॥४४॥ नेति । यस्मिन् दशरथे । अवनीनाथे वसुवाधिपे । आत्मजेभ्य अपत्येभ्य , निर्गत विशेष तरतमभावो यस्मिन् कर्मणि तद् यथा स्यात् तथा । प्रजा जनान् । रक्षति पालयति सति । क्वचित् क्वापि राष्ट्र । अविद्वान् अज्ञ । लोक न व्यलोकि नो ऐति । एव क्वचित् शठ
"प्रिय वक्ति पुरोऽन्यत्र पिप्रिय कुरुते भृशम् ।
व्यक्तापराधचेष्टश्च शठोऽय कथितो बुवै ॥' इति विष्णुपुराणोक्तलक्षणलक्षित । एवम्
'मनसा वचसा यश्च दृश्यते कार्यतत्पर ।
कर्मणा विपरीतश्च स शठ सद्भिरुच्यते ।।' इति शब्दार्थचिन्तामणिनिरूपितश्च लोको न । कितवस्य खलस्य कर्म कैतवम् । तत्र पर परायणो लोको न। आम्नायस्य निगमागमस्य, सिद्धान्तम् उपादेयप्रमेयम्, भिनत्ति खण्डयति, इति आम्नायसिद्धान्तभिद् लोको न । तथा च रामायणम्
'तस्य सदिदिहे बुद्धिमुहु सीता निरीक्ष्य च ।
आम्नायानामयोगेन विद्या प्रशिथिलामिव ।।' इति । अनेकेषा नानाप्रकाराणाम्, आगमाना शास्त्राणा, भेदै प्रक्रियाभेदैः, भिन्न भेट प्राप्तम् , दोलायमानमिति यावत् । हृदय मानस यस्य तादृक् लोको न । द्रोहेण जिघासया, दग्ध हत आशयो वासना यस्य तथोक्त लोको न । सत्कार आगतस्वागतम् । तच्च
'तृणानि भूमिरुदक वाक् चतुर्थी च सूनृता ।
एतान्यपि सता गेहे नोच्छिद्यन्ते कदाचन ॥' इत्यवधिक । तत्र पराड्मुखो विरतव्यापारो लोको न । इहेद तत्त्वम्'प्रियप्राया वृत्तिविनयमधुरो वाचि नियम
प्रकृत्या कल्याणी मतिरनवगीत परिचय । पुरो वा पश्चाद् वा तदिदमविपर्यासितरस
रहस्य साधूनामनुपधि विशुद्ध विजयते ॥"