________________
३५
प्रथमो गुच्छक येनान्वभाषि भुवनान्तरजम्भमाण
कीर्तिप्रतापभरसौरभभास्वरेण । अस्तोपसर्गमधिकर्द्धि समृद्धभाव
___राजप्रजाप्रणयबन्धननन्दनश्रीः ॥४२॥ येनेति । भुवनान्तरेषु लोकान्तरेषु, जृम्भमाणौ जागरूको, यौ कीर्तिप्रतापौ यश ओजसी, तयो भर प्राग्भार , स एव विमलावदानजन्यतया सौरभ सौगन्ध्यम् , तेन भास्वरेण प्रकाशमानेन । भासते कर्तरि वरच् । येन दशरथेन । अस्ता नष्टा , उपसर्गा, यस्मिन् कर्मणि | तथा अविका अभिलापातिशायिनी, ऋद्धि सपत् यस्मिन् कर्मणि| तथा समृद्धा उदारा , भावा पदार्था , यस्मिन् कमणि । तद् यथा स्यात् तथा । राज्ञ रञ्जकस्य स्वामिन , प्रजाना प्रकर्षेण जायमानानाम् , यत् प्रणयबन्धन परस्परप्रीतिशृखला, तदेव नन्दन महेन्द्रोद्यानम् , तस्य श्री इव श्री , काचित् सौभाग्यलक्ष्मी । अन्वभाषि अनुपूर्वाद् भाषे कर्मणि लुङ् ॥४२॥ यस्यौजस्तपनः सपत्नसुदृशामाविश्य चेतस्यर
तत्रत्या सुखमाधनी सरसता सशोष्य चक्रे पुनः । नेत्रद्वारपतत्पयोझरमिषाद्वर्षोदय तादृश
य वीक्ष्य स्मितहसमण्डलमगान्मुञ्चत्तदास्याम्बुजम् ॥४३॥ यस्येति । यस्य राज्ञो दशरथस्य । ओज प्रताप एव तापकत्वात् तपन उष्णधामा । सपत्नसुदृशा वैरिस्त्रीणाम् । अर द्रुतम् , चेतसि मानसे | आविश्य सक्रम्य । तत्रत्या तत्रभवाम् । सुखसाधनी सतोषावहाम् । सरसता सारस्यम् । सशोष्य खिलीकृत्य । पुन-नेत्रद्वाराभ्याम् अक्षिवद्मभ्याम् , पततो गलत , पयोझरस्य अश्रुप्रवाहस्य, मिषाद् व्याजात् । तादृश तथाभूतम् । वर्षोदय जलदागमम् । चक्रे कृतवान् । य वीक्ष्य अवलोक्य । तासा सपत्नसुदृशाम् , आस्याम्बुज मुखारविन्दम् । मुञ्चत् जहत् । स्मितमेव हसमण्डल मरालकुलम् । अगात् अयासीत् । इणो लुङि गाडादेशे रूपम् ॥४॥ नाविद्वान्न शठो न कैतवपरो नाम्नायसिद्धान्तभि
नानेकागमभेदभिन्नहृदयो न द्रोहदग्धाशय ।