________________
३४
दशकण्ठववम् पुष्प्यन्ति विकस्वराणि, सारवाणि सरय्या भवानि, यानि शुक्लकृष्णकमलानि पुण्डरीकेन्दीवराणि, तेषाम् अरण्यस्य काननस्य । पत्राणा दलानाम्, व्रज बात । जवाल वेगवान्, अर्थात् मरुता दिनु विदिक्षु विक्षिप्त । य व्योम्नि मरुता निरन्तर सकीर्यते विकीर्यते । मुग्धा भ्रान्ता । त तारकाना नक्षत्राणाम् , ततीभि पक्तिभि , प्रत्युत्त घटितम् , नीलाम्बर नील नभ । कलयन्ति जानन्ति । अहो आश्चर्यम् । शार्दूलविक्रीडित छन्द ॥४०॥ इति पुरीवर्णनम् । तामध्युवास रुचिरा कुलराजधानी
भूवासवो दशरथः श्रु तपारदृश्वा । लेभे यमात्मजतया जगदुदिधीषु
नारायणः प्रकृतिपूरुषयोः परस्तात् ॥४१॥ तामिति । भुव भूपृष्ठस्य, वासव इन्द्र । श्रुताना शास्त्राणा, पारम् अन्त दृष्टवान् । दृशे क्वनिप् । 'दशरथ' इत्याख्य , दिलीपस्य प्रपौत्र , रघो पौत्र , अजस्य पुत्र । ता वर्णिताम् । रुचिरा मनोरमाम् । कुलस्य मन्वादिसतानस्य, राजवानी राजशासनास्थानीम् । अध्युवास अविवसतिस्म । 'उपान्वध्याड्वस (पा० १।४।४८ ) इति आधारस्य कर्मत्वम् । प्रकृति मूलप्रकृति , पूरुष साक्षी ।
'मूलप्रकृतिरविकृतिर्महदाद्या प्रकृतिविकृतय सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृति पुरुष ॥' (साख्यका०३) इत्यादिना व्युत्पादितौ प्रकृति-पुरुषपदार्थों, तयो । परस्तात् पर । सर्वपुरुषयो निरित्यर्थ । जगतो लोकस्य, उहिधीर्षु । उत्पूर्वाद् दधाते सन्नन्ताद् उप्रत्यय ।
नारायण
'आपो नारा इति प्रोक्ता आपो वै नरसूनव ।
ता यदस्यायन पूर्व तेन नारायण स्मृत ।' इत्युक्त । आत्मजतया अपत्यत्वेन । य सुकृतिन दशरथम् । लेभे प्राप्तवान् । स्वेच्छयैव नान्यजनसाधारण्येन । य लब्ध्वा प्रादुर्बभूव इति तात्पर्यम् । वसन्ततिलकावृत्तम् । उक्त च पिङ्गलसूत्रे
वसन्ततिलका भौ जौ गौ।' (पिङ्गलसू० अ०७८) यस्य पादे तकारभकारौ जकारौ गकारौ च तवृत्त वसन्ततिलकोत्युच्यत इत्यर्थ । एवमग्रऽपि ॥४॥