________________
प्रथमो गुच्छक
३३
इत्यादि । तत्रभवत पूज्यस्य । अरुन्धतीजाने वसिष्ठस्य | कीर्तिरिन समज्ञेव । स्रोतोरूपेण प्रवाहाकारेण परिणता | पार्वणस्य पार्विकस्य, चन्द्रस्य इन्दो, चन्द्रिकानिष्यन्दवारेव ज्योत्स्नाप्रवाहपारम्परीव | चिरसचिता चिराय राशीकृता ज्योतीरसस्य स्फटिकमणे, वसति अवस्थानम्, इव । प्रचेतस वरुणस्य । श्वेत चन्दनस्य मलयजस्य, ललाटिका ललाटभूषणम्, इव । ' कललाटात्कनलकारे' ( पा० ४ | ३ | ३५ ) इति कन् । भुव भूदेव्या | मुकुरफलिकेव दर्पणबिम्बमिव । कुबेरककुभ धनददिश । दिशो विभुत्वेन सर्वगतत्वेऽपि विन्ध्याद्र रेवविकल्पनया तथात्वारयानम् । वैकुण्ठस्य, कक्ष्येव प्रासादप्रकोष्ठ इव | कमलाया इन्दिराया उपभोगेन, अन्यत्र, कमलाना वारिरुहाम्, उपभोगेन सचरणेन, मुदित प्रसन्न य मधुसूदन नारायण, परत्र, ये मधुसूदना मधुलिह, तन्नादेन, नन्दिता समृद्धा । वह्निकाष्ठा आग्न ेयीदिग्, इव । पुण्डरीकेण तन्नाम्ना दिक्कुञ्जरेण, अन्यत्र, पुण्डरीकै सिताम्भोजै, मण्डिता भूषिता । नरवाहनस्य धनदस्य, ससत् सभा, इव । प्रकटा आविर्भूता शङ्खा पद्म मकर-कच्छपाख्या निधिविशेषा यस्याम्, तथाभूता परत्र, प्रकटा रिङ्गन्त, शङ्खा पद्मानि मकरा कच्छपा, तदाख्यवस्तूनि यस्याम् तथोक्ता । सभङ्गा भङ्ग प्राप्ता, अभङ्गा भङ्गेन रहिता, न स्याद् । अपि विरोधे । परिहारे तु-भङ्गै तरङ्ग सह वर्तमाना सभङ्गा । अथ अभङ्गा, गङ्गायमुनादिरिव नानोपद्रवेण वर्जिता । वसिष्ठस्य तनया वासिष्ठीति जोर्जाह्नवीव पुराणेतिहासप्रसिद्धा । अत्र मामक पद्यम्
1
'अश्रान्त तव सनिधौ निवसत कूलेषु विश्राम्यत
पानीय पिबत क्रिया कलयतस्तत्त्व पर ध्यायत । उद्यत् प्रेमतरङ्गभगुरदृशा वीचिच्छटा पश्यतो
दीनत्राणपरे | ममेदमयता वासिष्ठ | शिष्ट वय || ३ ||' (सरयू सुधा ) इति । भगवती रूपान्तरग्रहणक्षमा, न तु वारिरूपैव ||३६|| मञ्जन्नागरनायिकाकुचघटीस घट्टभग्नीभव
त्पुष्प्यत्सारन शुक्लकृष्णकमलारण्यस्य पत्रत्रजः । जालो मस्ता निरन्तरमहो यो व्योम्नि सकीर्यते
मुग्धास्त कलयन्ति तारकततीप्रत्युप्त नीलाम्बरम् ||४०|| मज्जन्नागरेति । मज्जन्तीनाम् अवगाहमानानाम्, नागरनायिकाना पौररमणीनाम्, कुचघटीसघट्टेन स्तनकलशावमर्देन, भग्नीभवन्ति त्रुट्यन्ति,