Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 190
________________ ૮૬ 'काव्यमाला । श्रेष्ठानपि । एवं चैतद्रक्षणे क्लेशवत्त्वेऽपि न तं महान्तः परिगणयन्तीति द्योत्यते । पक्षे महापरिमाणान् । एवं च गोपने क्लेशवत्ता ध्वन्यते । दधति स्थापयन्ति । लघवो नीचाः । पक्षे खल्पपरिमाणशालिनः । अल्पमपि । एवं च संरक्षणे सुकरत्वमावेद्यते । न दधति । अर्थान्तरन्यासेनामुमेवार्थ द्रढयति — समुद्रोऽद्रीन्गोपयति । अद्रीनित्यनेन खदुःखदमन्दरसजातीयतया द्वेषवत्त्वेऽपि, इन्द्ररूपशत्रुसत्त्वेन भीतिकरणौचित्येऽपि च तदगणनेन महत्तरत्वमावेद्यते । निदाघकालीननद्यो मण्डूकमपि न गोपयन्ति । मेकपदेन खजीवनाधीनजीवनतया तथाविधशत्रुशून्यतया च रक्षणौचित्यमावेद्यते । एवं च महान्तएव महत्तरशत्रुमवधूयापि शरणागतं पालयन्ति न क्षुद्रा इति ध्वन्यते ॥ आरब्धमानां नायिकां नायको वक्ति मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखमङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥ ४५२ ॥ मध्विति । हे मानिनि । एवं च रूक्षत्वादिकरणौचित्यमावेद्यते । माक्षिकधारेव रूक्षापि स्नेहाभाववत्यपि खाभाविकीं माधुरीं न त्यजसि । सहजामित्यनेन तत्परित्यागस्य कर्तुमशक्यत्वमावेद्यते । वत्रीकृतवदनापि त्वं जलधेर्नदीव मम रसं प्रीतिम् । पक्षे जलम् । प्रयच्छसि । मानश्चायं लघुः ॥ वीणावादनकारिणीं नायिकां सुरतोत्कण्ठितो नायकस्तन्निरसनाय वक्ति— मदनाकृष्टधनुर्ज्याघातैरेव गृहिणि पथिकतरुणानाम् । वीणात श्रीकाणैः केषां न विकम्पते चेतः ॥ ४५३ ॥ I मदनेति । हे गृहिणि । एवं च दयावत्त्वौचित्यमावेद्यते । मन्मथाकृष्टचापज्याघातैरिव वीणातश्रीशब्दैः केषां पथिकतरुणानां चेतो न विकम्पते । अपि तु सर्वेषाम् । एवं चैतादृशत्वदीयवीणावादनश्रवणेन पथिकप्राणाः प्रयास्यन्ति, अतो विरम वीणावादनादिति द्योत्यते । 'न विकल्पते' इति पाठे जीवनं भविष्यति न चेति संदेहवद्भवतीत्यर्थः ॥ नायकः सखायं वक्ति मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् । जातं 'क चाम्तरिक्षे स्मितसंवृतिनमितघरयोः ॥ ४५१ ॥ अमेति । क चान्तरिक्षे कचिन्मार्गमध्ये स्मितगोपनार्थ नमितजीवयोः । राम

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284