Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
वेद्यते । तस्याः सुरतं सुरतम्। द्वितीयं सुरतपदम् 'यस्य मित्राणि मित्राणि इत्यादिवसुखातिशयजनकमित्यान्तरसंक्रमितवाच्यम् । अत एव तत्सुरतादन्यः प्राजापत्यऋतुः । ऋतुपदेन कालान्तरमावि फलत्वं व्यज्यते । तेन चैतदतिरिक्तपत्नीसुरतं पुत्रादिजननोत्तरं सुखदं न तदानीमेवेसनेनापीयमेव ममातिशयप्रेमवतीति ॥ दुर्जननिन्दाभिया परपुरुषे मानसमकुर्वाणां नायिकां दूती वक्ति
सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः।
केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥ ६३० ॥ सखीति । हे सखि । एवं च हितोपदेशकथनाहत्वं द्योत्यते । मलिना निर्मलानामभिधानमपि । अपिना संगत्यादेयुदासः । निश्चयेन मुखे न विदधति । अमु. मेवार्थमर्थान्तरन्यासेन द्रढयति-पिकानां कुहूं विहायान्यः शब्दः केनाश्रावि । न केनापीत्यर्थः । एवं च मलिनोक्तदुरुक्कैः किंचिन्न मनसि दुःखं विधेयमित्यावेद्यते । तेन च दुर्जनभीतिमुत्सृज्य खाभिलषितं यथेच्छं साधयेति ॥ कविलघुतापि समीचीनफलदेति कश्चित्कंचिद्वक्ति
खल्पा इति रामबलैये न्यस्ता नाशये पयोराशेः।
ते शैलाः स्थितिमन्तो हन्त लघिनैव बहुमानः ॥ ६३१ ॥ खल्या इति । ये खुपतिसैन्यैः खल्पा इत हेतोः समुद्रस्यान्तर्न निःक्षिप्तास्ते शैलाः स्थितिमन्तः। भुवीति भावः । जाताः । अतो लाघवेनव बहुमानः । महपरिमाणस्थितिशालित्वादिति भावः ॥ नायिकासखी नायकं वकि
सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रण । विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव ॥ ६३२ ॥ सेति । अत्र संबुद्धिपदानुपादानं नायकविषयकक्रोधवत्तामावेदयति । श्यामा षोडशवार्षिकी । पक्षे श्यामवर्णा । इशानी । पक्षे स्थूलेतरा । सा नायिका दहता शीतोपचारेण तीव्रः । अधिक इत्यर्थः । तेन । विरहेण दूर्वा हिमेनेव पाण्डुतां नीता । एवं च त्वद्विरहखिन्ना या लयानुप्रास्येति व्यज्यते ॥

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284