Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 256
________________ २१२ काव्यमाल। यद्वा नायिका सखी वक्ति-हे सखि, सा दासबुद्धिर्मयि न । यथा पूर्व दासवदाज्ञां कुर्वन्स्थितस्तथा नाधुनेत्यर्थः । न प्रीतिः । नान्यतो लज्जा । पूर्व मयि स्थितायामनेन कदाचिदस्या दुःखं भविष्यतीति धियान्यस्याः परिहासोऽपि न कृतः, इदानीं मामगणयित्वा निर्लज्जतया व्यवहरतीति भावः । न विश्वासः । किंचिद्वस्त्वाद्यपि मद्धस्ते नार्पयतीति भावः । अतो नवोढां वीक्ष्य वयमप्रिया जाता इत्यह मन्ये । निरीक्ष्येत्यनेन संगमे किमनेन विधेयं तन विज्ञायते मयेति ध्वन्यते । एवं च सपत्नीसत्त्वमात्रमप्येतादृशदुःखदं किं पुनस्वत्प्राधान्यमिति व्यज्यते ॥ काचित्कांचिद्वति सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् । धवलनखाई निजवपुरकुङ्कुमा न दर्शयति ॥ ६३६ ॥ सुचिरेति । निशि भुक्ता चतुरेयं गृहिणी असन्तचिरकालेनागते । प्रिय इति भावः । प्रातःकाले श्वेतनखचिहं खशरीरं कुछमाताभाववन्न दर्शयति । कुडमार्द्रमेव दर्शयतीत्यर्थः । सुचिरायात इत्यनेन नायिकायामन्यत्रासक्तिसंपादनयोग्यत्वं नायके च मन्मथविह्वलतया सम्यडिरीक्षणाभावेऽपि रतकारित्वमावेद्यते। गृहिणीत्यनेन खातभ्यं तेन चान्यकर्तृकनिवारणानहत्वं व्यज्यते। निशीत्यनेन दर्शनानहत्वं नखक्षतेषु ध्वन्यते । दिनमुख इत्यनेन नखक्षतेषु दर्शनयोग्यत्वं द्योयते। विदग्धपदेन वञ्चनानिपुणत्वं व्यज्यते । धवलपदेन नखक्षवेषु प्राचीनत्वं धवलनखाङ्कमित्यनेन यथास्थितशरीरस्य दर्शनायोग्यत्वं ध्वन्यते। अकुखमाई न दर्शयतीत्यनेन प्राचीननखक्षतेष्वपि नवीनत्वभ्रमोदयेन प्राकृतानुचिताचरणगोपनमभिव्य. ज्यते । एवं चैवंविधचतुरयैवैतादृशाचरणं कर्तव्यं नान्ययेति ध्वन्यते । तेन च न त्वयेति । यद्वैतादृशरीत्यापि नायकः प्रतारयितुं शक्यः, अतो नखक्षतादिभीतिमुत्सृज्य मदुक्तमङ्गीकुर्विति दूती नायिका वक्तिनायिका नायकं वजि स्तनजघनोरुपणयी गाढं लमो निवेशितखेहः । प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥ ६३७ ॥ स्तनेति । हे प्रिय, स्तनजघनोरुप्रीतिमान् । पझे कामतन्त्रे एतत्स्थानेषु नखक्षतदानाद्यमिधानात् । अत्यर्थ लमः। हठालिङ्गनप्रवण इत्यर्थः । पक्षेऽत्यन्तं निखात इत्यर्थः । निवेशितलेहः कृतप्रीतिः । पक्षे दत्ततैलः । पीडोपशमार्थमिति

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284