Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२५६
काव्यमाला।
त्यनेन मदनस्याप्येतत्करणक एव जगजय इति प्रतिपादनेन लावण्यपुरुषार्थातिशयशालित्वं नायके व्यज्यते । तेन चानेककामिनीवल्लभत्वं द्योत्सते । एवं च सुलभसमीचीनपुरुषान्विहाय तादृशपुरुषे समासक्ती क्रियमाणायामेतस्यातिगुणवत्कामिनीनां बाहुल्यात्तन्मध्ये एतस्या अप्रधानभाव एव स्यादिति व्यज्यते ॥ काचित्कांचिद्वक्ति
सा लजिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता।
बालायाः पीडायां निदानिते जागरे वैद्यैः ।। ६४७ ॥ सेति । वैद्यैर्बालायाः पीडायां जागरे निदानिते । एतस्याः पीडायां जागरणमेव निदानमित्यगदंकारैनिश्चित्योक इत्यर्थः । सा बाला लजिता । सुरतादिक्रीडाज्ञानादिति भावः । सपनी कुपिता । कथं प्रियतमोऽस्यामेतादृशासक्तिमान्संवृत्त इति धियेति भावः । प्रियो मीतः । मत्कृतापराधज्ञानं गृहिण्या जातमिति धियेति भावः । सखी । अर्थाद्वालायाः । सुखिता । खसखीसौभाग्यप्राकट्यादिति भावः । एवं च भर्तृसमीपगमने सम्यगेव भवतीति व्यज्यते ॥ विदेशादागते प्रेयसि मानकारिणी नायिका सखी समुपदिशति
• सुचिरागतस्य संवाहनच्छलेनाङ्गमङ्गमालिङ्गय । , पुष्यति चमानचर्चा गृहिणी सफलयति चोत्कलिकाम् ॥६४८॥
सुचिरेति । गृहिणी अत्यन्तचिरकालगतस्य । दयितस्येति भावः । संवाहनभिषेपाङ्गमङ्गमालिङ्गय मानम् । अवधिदिवसानागमनसंजातमिति भावः । पुष्यति च । 'मानगर्वम्' इति पाठे सर्वो द्वन्द्वो विभाषेकवद्भवतीत्येकवद्भावः । गर्व खोत्कर्षाभिमानं पुष्यति च। उत्कण्ठां च सफलयति । सुचिरागतस्येत्यनेन संवाहनौत्कण्ट्यौचित्यमावेद्यते । गृहिणीपदेनान्यासामीहशी रीतिरिति व्यज्यते । एवं च या गृहिणी भवति तस्यास्त्वेतादृशी रीतिरत एतादृशानाचरणे तव गृहिणीत्वमेव न स्यादतो नायकसेवापुरःसरमेव मानादिकं विधेयमिति व्यज्यते। तेन च संवाहनच्छलन मानसंगोपनमपि कर्तुं शक्यं सरलत्वसंरक्षणं चेति ॥ नायिकादूती नायकं वक्ति
सा सर्वथैव रका रागं गुञ्जेब न तु मुखे वहति ।
वचनपटोस्तव रागः केवलमास्ये शुकस्येव ॥ ६४९ ।। सेति । अत्र संबुद्धिपदानुपादानं दूतीगतकोषमावेदयति । स च नायका

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284