Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
शोकस्सरणपङ्किर्जलसंवन्धिघटमिव मम हृदयं विदारयिष्यति । एवं च मयि प्रस्थितुं कृतोद्योगे संजातप्रियादुःखं प्रबलत्वाद्वारं वारं जायमानत्वान्मम हृदयं दुःखोद्रेकवशाद्भिनं करिष्यतीत्यर्थः । प्रियादुःखादप्यत्यन्तं मम दुःखं भावीति भावः। यद्वा वारंवारं जायमानः प्रबलः । एवं च प्रतीकारानहत्वमावेद्यते प्रियायाः। एवं चावश्यभवनयोग्यत्वं शोके द्योत्यते । विरहजः शोको मम हृदयं स्फोटयिष्यति । एवं च प्रियविरहजन्यदुःखं मया सोढुमशक्यमिति न मया प्रस्थितिर्विधेयेति व्यज्यते । यद्वाननुभूतप्रियाविरहः कश्चित्सखायं पृच्छति-प्रियासंबन्धि. शोको मम हृदयं विदारयिष्यतीति । एवं च प्रियासंबन्धित्वेन शोकस्य प्रियाहृदयविदारकत्वमुचितं नान्यहृदयविदारकत्वमिति व्यज्यते । मम हृदयमित्यनेन हृदयविदारणेऽसह्यत्वं तनिवारणोपायसंपादने चावश्यकर्तव्यत्वं ध्वन्यते। तरङ्गपङ्किरपि प्रतिक्षणकृतावृत्तिः प्रबला जलार्थ प्रक्षिप्तं कलशं स्फोटयति ॥ - नायिका सखी वक्ति
हन्त विरहः समन्ताज्वलयति दुरितीवसंवेगः । अरुणस्तपनशिलामिव पुनर्न मां भस्मतां नयति ॥ ६९१ ।।
हन्तेति । दुःखेन निवारयितुमशक्यस्तीव्रो दुःसहः संवेग आधिक्यं यस्य स विरहः समन्तात् । सर्वाङ्गमित्यर्थः । सर्वत्रेति वा । वापि विश्रान्तिस्थानं नास्तीति भावः । मां ज्वलयति । हन्त खेदे । अरुणस्तपनशिलामिव पुनर्न भस्मतां प्रापयति । एवं विरहे सति जीवनान्मरणमेव वरमिति व्यज्यते ॥ कश्चित्कांचिदन्योक्त्या वत्ति
हृत्वा तटिनि तरङ्गभ्रमितश्चक्रेषु नाशये निहितः।
फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥ ६९२ ॥ हत्वेति । हे तटिनि, एवं च निष्कामगमनयोग्यत्वं ध्वन्यते । तर हत्वा चक्रेष्वम्भसां भ्रमेषु भ्रमि प्रापितः । आशये मध्ये न स्थापितः । फलदलवल्कलैहीनस्तरुस्त्वयान्तरिक्षे त्यक्तः । एवं च तरणरूपकटाक्षरेनं खाधीनीकृत्येतस्ततो भ्रामयित्वा खान्तःकरणेऽकृत्वा द्रव्यादिहीनत्वमासादयित्वाकस्मात्परित्यक्तोऽयं नायकः, इमनुचितं तवेति ध्वन्यते ॥

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284