Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 281
________________ आर्यानसशाती। २७ एका बनिद्वितीका त्रिमुक्नसारा स्कुटोक्तिचातुर्या । पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती ।। ६९९ ॥ एकेति । एका मुख्या। ध्वननं ध्वनिः । व्यञ्जनेति यावत् । सैव द्वितीया सहावभूता यस्याः । एवं चोत्तमकाव्यमयीत्वं सप्तशत्यां ध्वन्यते। त्रिभुवनसाररूपा । बना त्रिभुवने सारं रसस्तद्वतीत्यर्थः । अथवा त्रिभुवनं सारं यया । एवं च त्रिभुवनेप्येतदसत्त्वे निःसारतवासीत्, इदानीमनया सारवत्ता जातेति भावः । स्कुटमुक्तिपातुर्य यस्याम् । यद्वा स्फुटं व्यक्तमुक्तिचातुर्य यया । पञ्चेषुर्मदनतद्रूपो यः षट्पदखसहिता । खकर्तव्यतासहायतयेति भावः । श्रवणस्य श्रोत्रस । सतामिति भावः । भूषा भूषणरूपा । सप्तशती । सप्तशतीनामकोऽयं अन्ध आस्ताम् । एवं च सद्भिरियं सप्तशवी श्रोतव्येति प्रार्थना व्यज्यते । पञ्चेषुषट्पदहिता श्रवणस्य भूषेत्यनेन सप्तशलां मजरीत्वं व्यज्यते । यद्वा सप्तशत्यां नायिकात्वारोपणे. नावश्यस्पृहणीयत्वं व्यनकि । सप्तशती । सतां हृद्यास्वामित्यध्याहारेण योजना। ए हर्योदरे । एकारस्य हर्योदरवाचकत्वमेकाक्षरनिघण्टेऽवसेयम् । अव्ययत्वाचास्य सर्वलिङ्गसर्वविभक्तितुल्यत्वम् । कस्य सुखस्याध्वनि मार्गे द्वितीया । नानया विना गृहान्तर्वर्तिसुखमार्ग इति भावः । एवं च गार्हस्थ्यसुखेच्छावतेयमवश्यं सेवनीयेति व्यज्यते । त्रिभुवने सारभूता । बहुविधव्ययायाससाध्ययागादिजन्यखर्गादावपि नायिकैव भोगेषु मुख्येति भावः । यद्वात्रः सकाशाद्भवतीयत्रिभु चान्द्रं ज्योतिस्तस्य वनं समूहस्तस्य साररूपा । एवं चेयं चन्द्रसारैर्निर्मितेति भावः । एवं चान्योपायासाध्यतापोपशामकत्वमावेद्यते । यद्वा त्रिभुवनं सारं यया । एवं च नायिकासांनिध्ये सारासाररूपस्यापि त्रिभुवनस्य साररूपतैव भवतीति व्यज्यते । स्फुटमुक्तिचातुर्य यस्याः । स्फुटमित्यनेन निःसंदिग्धत्वं ध्वन्यते । यद्वा स्फुटा सप्रसादोकिर्यस्य । प्रसनार्थकोक्तिशालिनि नायके चातुर्य यस्याः । एवं चानमिज्ञनायकं प्रति यदि न कामिनी चमत्कारकारिणी तदा म काचित्क्षतिरिति भावः । यद्वास्फुटोको कोजौ चातुर्य यस्याः । पछेषोर्मदनस्य षडमिः संधिविग्रहयानासनदैभीभावाश्रयरूपोपायैः पदाय वृद्धिरूपाय हिता । कामोऽप्येमामेवासाच संध्याधुपायैर्जमजवतया वृद्धिमाम्भवतीति भावः । एवं च मदमस्य सर्वखभूवेबमिति व्यज्यो । पोषुपदेन खल्पसामप्रीवतोऽपि महत्तरकार्यनिर्वाहकतवाविमत्रनिपुणेत्वमावेद्यते । अया पोषोः षट्पदरूपा । ज्यालपेत्यर्थः । अत एव च हिता।

Loading...

Page Navigation
1 ... 279 280 281 282 283 284