Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२७८
काव्यमाला ।
एवं चानया विना मदनधनुरनर्थकमेवेति भावः । यद्वा पञ्चेषुरूपभ्रमरस्य हिता । एवं च प्रसिद्धलतातिशयशालिलतात्वं नायिकायां व्यज्यते । तेन चातिकोमलाङ्गीत्वम् । श्रवणस्य भूषणरूपा । एवं च नायिकागुणेषु सर्वदा श्रवणेच्छाविषयत्वं ध्वन्यते । यद्वा एकस्याद्वितीयस्य ब्रह्मखरूपरसस्य यद्वा मुख्यस्य ब्रह्मखरूपरसस्याध्वनि मार्गे द्वितीया । ब्रह्मविद्येति भावः । त्रिभुवनं सारं यया । एवं च ब्रह्मविद्य. योत्पन्नतत्त्वज्ञानस्य सर्वत्र ब्रह्मभावनारूपसारसाम्राज्यमिति भावः । अथवा त्रिभुवनं साररूपं यया । ब्रह्मात्मकत्वेन निर्णयादिति भावः । स्फुटमुक्तौ चातुर्य सामर्थ्य यस्याः । वाचामगोचरस्यापि प्रतिपादनादिति भावः । यद्वा स्फुटम् । प्रकटतयेति यावत् । उक्तौ प्रतिपादने सामर्थ्यं यस्याः । अतिनिगूढस्याप्यात्मरूपरसस्य स्फुटप्रतिपादनमत्यन्तं दुष्करमिति भावः । स्फुटे प्रकटे सर्वदा खप्रकाशरूपे ब्रह्मण्युक्तौ चातुर्यं यस्याः । खप्रकाशत्वे झटिति ज्ञानयोग्यत्वेऽपि स्वापेक्षासंपादनेन चातुर्य - वत्ता । पञ्चस्य प्रपञ्चस्य बाणरूपा ये षट्संख्याकाः कामक्रोध लोभमोहमदमत्सरास्तेषां यत्स्थानमज्ञानं तस्याहिता नाशिका | स्वजन्यज्ञानद्वारेति भावः । इषुत्वेनातिदुःसहत्वम् । एमिः कृत्वैव प्रपञ्चस्यापि दुःखदत्वम् । श्रवणस्य श्रोतव्येत्यादिविधि - विहितस्य भूषा । श्रुतिजन्यज्ञानस्यैव समीचीनत्वमिति भावः । सप्तशती सतां हृद्यास्ताम् । एवं च रसे ब्रह्मरूपताप्रतिपादनात्सप्तशत्यां ब्रह्मविद्यात्वप्रतिपादनेन तत्परिशीलनं सतां सर्वदा समुचितमिति ध्वन्यते । संख्याक्रमोऽप्यत्र ॥
खग्रन्थावलोकने लोकप्रवृत्त्यर्थमाधिक्यं वक्ति—
कविसमरसिंहनादः खरानुवादः सुधैकसंवादः । विद्वद्विनोदकन्दः संदर्भोऽयं मया सृष्टः ॥ ७०० ॥
कवीति । कविसङ्ग्रामे सिंहनादः । एवं चैतत्संदर्भश्रवणेऽन्यकवीनां दर्पहा. निरवश्यं भवतीति ध्वन्यते । खराः षड्जादय अनुवादो यस्य । एवं चैतन्माधुर्यन्यूनमाधुर्यवत्ता षड्जादाविति भावः । सुधाया एकः संवादः साजात्यं यस्य । एतत्सजातीया सुधेति भावः । यद्वा सुधारूप एकः सम्यग्वदनं वादो यस्य सः । एवं चैतत्संदर्भस्यैकदोच्चारणं सुधासमसुखावहम् । वारंवारोच्चारण परिभावनादिकं तु ब्रह्मानन्दाखादकृदिति व्यज्यते । विदुषां विनोदस्य कन्दः । एवंचैतग्रन्थस्याविदुषां . विनोदजनकत्वाभावे न क्षतिरिति भावः । अयं संदर्भों मया सृष्टः ॥

Page Navigation
1 ... 280 281 282 283 284