Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 279
________________ आर्यासप्तशती। २७५ च गर्वम् । यच्छतः कुर्वतः मधुनो माक्षिकस्याधमपुरुषस्य च गौरवं गुरुत्वं लाघवं तुच्छत्वं च भेदाय । यद्वा मधु मद्यम् , क्षुद्रा कण्टकारिकेत्यर्थः । एवं चाधमसंगतिर्न विधेयेति ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता क्षकारव्रजा। खकृतौ गुणाढ्यादिमहाकविकृतिसमतां वक्ति पूर्वविभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः। वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥ ६९७ ॥ पूर्वैरिति । गुणाढ्यभवभूतिबाणकालिदासः पूर्वैः प्राक्तनैविभिन्नवृत्तामपि लक्षणसरणिशालिनी (लक्षणया खैरिणी) वाग्देवीं भजतो मम को दोषः । न कोऽपीत्यर्थः । इदं सन्तः पश्यन्तु । एवं च वाग्देव्या एकत्वेऽपि वैलक्षण्येन पूर्वैः सेवितत्वान्मयापि वैलक्षण्येन सा सेवितेति न मद्दोषगणनं सतामुचितमिति भावः । सन्त इत्यनेन नासतां प्रार्थना।अथ च पूर्वैर्गुणाढ्यादिभिर्विभिन्नशीलां वायूपां देवी राज्ञी भजतो मम को दोषः । इदं सन्तः पश्यन्तु । एवं च 'यद्यदाचरति श्रेष्ठस्ततदेवेतरो जनः' इति वचनाद्वाग्देवीभजनं न मम दोषावहमिति भावः। एवं च खस्मिन्वाक्पतित्वमावेद्यते । एवं च कारपदोपादानान्नाश्लीलता ॥ खग्रन्थस्य समीचीनत्वात्सर्वहर्षजनकत्वमिति वक्ति सत्पात्रोपनयोचितसत्प्रतिबिम्बाभिनववस्तु । कस्य न जनयति हर्ष सत्काव्यं मधुरवचनं च ॥ ६९८॥ सत्पात्रेति । नवमभिनवं वस्तु सत्काव्यं मधुरवचनं च कस्य न हर्ष जनयति । अपि तु सर्वस्येति भावः । सत्पात्रेत्यादिविशेषणत्रितयस्यार्थः क्रमेण । १. बहुषु मूलपुस्तकेष्वयं समीचीनः पाठो वर्तते. टीकानुकूलपाठस्त्वयम्-'सत्पाबोपनयोचितं सत्प्रतिबिम्बमभिन्नं नवं वस्तु.' अस्मिन्पाठे स्फुट एव च्छन्दोमङ्गः. इमामार्यामग्रिमां च भङ्गां निपीयानन्तपण्डितो व्याख्यातवानिति भाति. एवमेव भाकारव्रज्यायाम् 'आरोपिता शिलायाम्-"८१)इत्याचार्या टीकानुरोधेन च्छन्दोमङ्गदूषितेव मुद्रिता. मूलपुस्खकेषु तु 'भारोपिता शिलायामश्मेव त्वं सिरेति मत्रेण' इति साधीयान्पाठो दृश्यते.

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284