Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२७४
काव्यमाला ।
पराङ्गनालम्पटत्वादिराहित्येन त्वयि प्रीतिविषयत्वेऽपि वारंवारागमनचाटुवचनरचनादिमत्तया प्रीतिविषयत्वं भावीति व्यज्यते । एवं चाहमपराधाभाववानिति तूष्णीमेवावस्थितिरनुचिततरेति व्यज्यते । तु पुनः प्रेम्णः शैलः पर्वतो ज्वरस्य शेष इवाजान्यानमयति। एवं च यथा बलाज्वरशेषोऽङ्गनमनाभावमिच्छोरप्यङ्गनमनं करोत्येव तथा यदि त्वं तद्विषयकबहुतरप्रेमवानसि तर्हि तदेव त्वां बलात्प्रमाणादिशालिनं करिष्यतीति भावः । एवं च नाहमपराधीति किमिति प्रणामादिकं न करिष्यामीति वक्तुं नोचितं तवेति ध्वन्यत इत्यर्थः । कुपितनायिकां समाधातुमशक्ता दूती नायकं वक्ति । योजना प्राग्वत् । एवं च तस्यां तीव्रः कोपो न वा शीलप्रेमशेषः । अतस्तस्यास्त्वं न दयित इति भाव इति प्रतिभाति । परं तु मानस्यासाध्यत्वप्रदर्शनेनाभासत्वमायाति ॥
1
नायिका नायकं वक्ति
क्षान्तमपसारितो यच्चरणावुपधाय सुप्त एवासि ।
उद्घाटयसि किमूरू निःश्वासैः पुलकयन्नुष्णैः ॥ ६९५ ॥
क्षान्तमिति । अत्र संबुद्धिपदानुपादानं क्रोधमावेदयति । अपसारितो दूरीकृतश्चरणावुपधानीकृत्य सुप्त एवासि तत्क्षान्तम् । उष्णैः । संतापजत्वादिति भावः । निःश्वासैः पुलकयन्नूरू किमुद्घाटयसि । इयमेव हि त्वां प्रति मदीया क्षमा यच्चरणसविधे सुप्त इतो न निराकृतोऽसि । त्वं पुनर्धृष्ट ऊरुविघटनं करोषि महत्साहसं तवेति ध्वन्यते । तेन चैतन्न मया सोढव्यमिति । यद्वा यदपसारितश्चरणावुपधाय सुप्त एवास्यतः क्षान्तं त्वदीयानुचितमिति भावः । क्षमाफलमेवाह—उष्णैः श्वसितैः पुलकयन्नूरू किमित्युद्घाटयसि । एवं च त्वदीयसहनशीलतया मया त्वदीयापराधजदुःखं त्यक्तम्, अतो दुःखजाञ्श्वासान्परित्यज्याचिरमालिङ्गनचुम्बनादि विधेहीति ध्वन्यते । एवं च पुलकयन्निति सार्थकम् ॥
'
कश्चित्कंचिद्वति—
क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच्छतश्च मदमुच्चैः ।
मधुनो लघुपुरुषस्य च गरिमा लघिमा च मेदाय ॥ ६९६ ॥
क्षुद्रेति । क्षुद्रा मधुमक्षिका । अथ च क्षुद्रो नीचः । तदुत्पन्नस्य । कटुतां रूक्षताम् । अथ च कटुभाषिताम् । प्रकटयतः । उच्चैरुत्कटं मदमुन्मादम् । अथ

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284