Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 274
________________ २७०. काव्यमाला। कस्यचिहती कांचन वक्ति- सखि विश्वगञ्जनीया लक्ष्मीरिव कमलमुखि कदर्यस्य ।। त्वं प्रवयसोऽस्य रक्षावीक्षणमात्रोपयोग्यासि ।। ६८५ ॥ सखीति । हे सखि, कदर्यस्य कृपणस्य विश्वोपमा लक्ष्मीरिव । एवं च पुरुषोत्तमसंगतियोग्यत्वं व्यज्यते । कमलवदने, त्वं प्रकृष्टं वयो यस्येत्येवंविधस्थास्य रक्षणं रक्षा वीक्षणं च तन्मात्रे उपयोगो यस्याः। कृपणलक्ष्मीरपि भोगाद्यभावात्तथाविधेति भावः । एतादृश्यसि । एवं चात्यन्तसौन्दर्यशालिनी त्वमेतस्य सुरताक्षमस्य जरठस्य नोपयोगिनी, अतः पुरुषविशेषे मनः कुर्विति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता सकारव्रज्या । हकारव्रज्या। नायकः सखायं वक्ति हृदयज्ञया गवाक्षे विसदृक्षं किमपि कूजितं सख्या । यत्कलहभिन्नतल्पा भयकपटादेति मां सुतनुः ॥ ६८६ ॥ हृदयेति । कलहभिन्नशय्या सुतनुर्भयव्याजाद्यथा मां प्रत्येति तथा हृदयज्ञया नायिकाभिप्रायज्ञानवत्या सख्या गवाक्षे किमपि वक्तुमशक्यं विसदृशं कूजितम् । विसदृक्षमित्यनेन भययोग्यत्वम् । एवं च कलहोत्तरसंजातसंतापं नायिकाया विज्ञाय तथाविधविलक्षणकूजिते सख्या कृते भयव्याजेन मनिकटे नायिकागतेति नायिकाकलहो नातिचिरावस्थायीति व्यज्यते ॥ सखी नायिका वक्ति हरति हृदयं शलाकानिहितोऽजनतन्तुरेष सखि मुग्धे । लोचनबाणमुचान्त धनुषा किण इवोल्लिखितः ॥ ६८७॥ हरतीति । हे सखि मुग्धे सुन्दरि, शलाकया निहित एष कजलतन्तुः । न्तुपदेन रेखायां तनीयस्त्वं व्यज्यते । लोचनरूपो यः शरस्तन्मोचनका भ्रूधनुषोल्लिखितः किण इव हृदयम् । अर्थानायकस्य । हरति । एवं चैतादृशत्वदीयहनुगृहीतो निगृहीत इव संवृत्तः, अत एनमनुकम्पया द्रुतमनुगृहाणेति व्यज्यते।

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284