Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 273
________________ आर्यासप्तशती। नानाविधोपायैः करोति न दुष्ट इति सुजनसंनिधिरेवोचित इति वन्यते । पक्षच्छेदनप्रवृत्तेन्दभयान्मैनाकोऽपि पृथिवीं विहाय समुद्रे गत्वा तनीचदेशमप्यवलम्ब्य स्थितः-इति पुराणप्रसिद्धिः ॥ मानवती नायिकां सखी वकि संवृणु बाष्पजलं सखि दृशमुपरज्याञ्जनेन वलयैनाम् । दयितः पश्यतु पल्लवपङ्कजयोर्युगपदेव रुचम् ॥ ६८३ ॥ संवृण्विति । हे सखि । एवं च हितकथनार्हत्वं ध्वन्यते । तेन च मदुक्तं कुर्विति । बाष्पोदकं संवृणु । कज्जलेनोपरज्यैनां दृशं वलय । उत्तरगयेत्यर्थः । दयितः । एवं चावश्यसमाधेयत्वमावेद्यते । किसलयेन्दीवरयोरेककालमेव रुवं पश्यतु । एवं च रोदनादिना रक्ततामापनाया दृशः कन्जलदानेन श्यामतासंपादनेन व्यधिकरणत्वेन प्रसिद्धयोरपि पल्लवेन्दीवरयोरैकाधिकरण्यसंपादनेन सर्वाद्भुतवस्तुप्रदर्शनजनितानन्ददानेन नय खाधीनतामिति भावः। 'दृशम्' इति स्थाने 'भृशम्', 'पल्लव-' इति स्थाने 'पल्वल-' इति पाठे भृशमधिरज्यैनां दृशमित्यध्याहार्य वलयेति योजना । अञ्जनदानेन पकवत्तासंपादनेन पङ्कजसत्त्वयोग्यता । एवं च सरसि पढेरुहवत्ता प्रसिद्धा । पल्वलेऽपि तद्भवनेन चमत्कारातिशयप्रदर्शनेन नायकचित्ताकर्षकत्वं तव सुलभमिति ध्वन्यते । 'एनम्' इति पाठे नेत्रमित्यध्याहारः। नायकं वलय विलोकयेति वा योज्यम् । मानश्चायमन्यथासिद्धकुतूहलाद्यपनेयः । 'पल्वलपङ्केरुहसङ्गसकलरुचम्' इत्यपि क्वचित्पाठः ॥ अत्यन्तं सा त्वद्विरहखिना त्वदधीनैवेत्यवगत्यानुप्राह्या नायिकेति तत्सखी नायकं वचि सा पाण्डुदुर्बलागी नयसि त्वं यत्र याति तत्रैव ।। कठिनीव कैतवविदो हस्तग्रहमात्रसाध्या ते ॥ ६८४ ॥ सेति । एषा पाण्डूनि दुर्बलान्यङ्गानि यस्या एतादृशी । त्वद्विरहवशादिति भावः । त्वं यत्र नयसि तत्रैव याति । यास्थतीत्यर्थः । एवं चान्यविषयकप्रेमशून्यत्वमावेद्यते । कठिनीव कैतवविदः । एवं त्वदीय एवापराधो न तस्या इति भावः । यद्वा येन व्याजेन तत्र गत्वा तत्संमानं विधेयं तत्सर्व त्वया विज्ञायते कि मयोपदेष्टव्यमिति भावः । ते हस्खग्रहमात्रसाध्या । एवं च चाटुवचनादिकं किमपि नापेक्षितमिति भावः । खटिकापि पाण्डुरवर्णा सूक्ष्मा लेखककरप्रहाधीना यत्र यत्र नीयते तत्र तत्र गच्छति ॥

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284