Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 271
________________ असतशती । २६७ मायिका सखीं वक्ति स्वसदननिकटे नलिनीमभिनवजातच्छदां निरीक्ष्यैव । 1 हा गृहिणीति प्रलपंश्चिरागतः सखि पतिः पतितः ॥ ६७९ ॥ स्वेति । हे सखि, खसदनसविधे । एवं च च्छदग्रहणयोग्यत्वं ध्वन्यते । कमलिनीं नूतनसंजातदलाम् । एवं च पूर्वपत्राभावो नायिकाविरहनिबन्धन एवेति ध्वन्यते । दृष्ट्वैव । एवं च प्रश्नाद्यकरणेनातिशयिताधैर्यमावेद्यते । तत्कालमागतः । एवं च चिरप्रवासाभावेन तथाविधविरहाद्ययोग्यत्वेऽपि तदज्ञानेनात्यन्तासक्तिरावेद्यते । हा गृहिणि, इति प्रलपन् । संपूर्णवाक्यानभिधानं च दुःखोद्रेकमावेदयति । पतिः । प्राणेभ्योऽपि मयि स्नेहवानित्यर्थः । पतितः । मूच्छ्येति भावः । यद्दा हे सखि, निलयनिकटे न तु निलये । एवं चातिविरहयोग्यत्वं ध्वन्यते नायिकायाम् ॥ यद्वा निलयनिकट इत्यनेन दर्शनयोग्यत्वं तेन चावश्योच्छेदनीयत्वमावेद्यते । अमिनवानां नूतनानाम् । अर्थात्पत्राणाम् । जातः समूहो यत्र । एतादृशानि च्छदानि । अर्थात्पुराणानि यस्यां सा तां नलिनीं निरीक्ष्यैवाचिरागतः पतिर्हा गृहिणि, इति प्रलपन्पतितः । एवं च मत्प्रस्थितौ नियतमेषा विरहमसहमाना जीवनवती प्राचीननवीनदलसमृद्धिशालिनी विहन्यादेव । न चेयं व्याहता । तेन न जीवतीयमिति नलिनीदर्शनसमसमयमेव निश्चयेन मूच्छित इति ध्वन्यते । अचिरागत इत्यनेनैतादृशसंभावनानर्हत्वं तथापि तत्करणेनात्यन्तनायिकासक्तिमत्त्वं नायके व्यज्यत इत्यर्थः । एवं चैतादृशो नायकोऽन्यस्या नेति भावः । क्वचित् 'नलिनीदलानि मलिनानि वीक्ष्यैव' इति पाठः ॥ नायकसखी नायिकां वक्ति सखि चतुराननभावाद्वैमुख्यं क्वापि नैव दर्शयति । अयमेकहृदय एव द्रुहिण इब प्रियतमस्तदपि ॥ ६८० ॥ सखीति । हे सखि, एवं च सत्यवादार्हत्वं ध्वन्यते । अयम् । एवं चान्येवामन्यादृशी गतिरिति भावः । प्रियतमो विधातेव चतुराननभावात्सुमुखत्वात् । चातुर्यवत्त्वादिति यावत् । पक्षे चतुर्मुखत्वात् । क्वापि वैमुख्यम् । विरसत्वमित्यर्थः । पक्षे मुखाभाववत्त्वं नैव दर्शयति । दर्शयत्येव नेत्यपि योजना | चतुराननभावादेवेत्यन्वयः । एवं च न चेतसः सकाशादिति भावः । तदपि तथापि एकस्याम् । त्वयीति भावः । हृदयं यस्यैतादृशः । एवं चान्यासु चातुर्यवशादासक्ति प्रदर्शयति

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284