Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 270
________________ काव्यमाला। 'कर्णोऽपि यदा महीगिलितरथचक्र निष्कासितुमुपक्रान्तवाखदार्जुनेन बाणेन ताडितः-इति पुराणम् ॥ भाग्यादिकं समीचीनमित्रस्य नास्तीति चिन्ताव्याकुलं कंचन कश्चिदधि खाधीनैव फलर्द्धिर्जनोपजीव्यत्वमुच्छ्रयच्छाया । सत्पुंसो मरुभूरुह इव जीवनमात्रमाशास्यम् ॥ ६७६ ।। खेति । मरुभुवि रोहतीति मरुभूरुहस्तस्यैव मरुदेशीयवृक्षस्येव समीचीनपुरुषस्य फलं द्रव्यादि । पक्षे यथाश्रुतम् । तस्य समृद्धिः खाधीनैव । इदमग्रेऽपि लिङ्गविपरिणामेनान्वेति । जनानामुपजीव्यत्वम् । अन्नादिदातृत्वात् । पक्षे फलादिप्रदानात् । अधिका छाया । इतरदुःखनिवारकत्वमित्यर्थः । पक्षे यथाश्रुतम् । जीवनमायुः । पक्षे जलम् । तदेवाशास्यम् । कर्कशदेशवसतिमानेवमर्थन मरुभूरुह इत्यपि सत्पुंसो विशेषणम् । एवं चायुष्ये सर्वमपि भवत्येवेत्सतस्त्वया न कापि जीवतस्तस्य चिन्ता विधेयेति वन्यते ॥ संपत्तिसंपन्नस्तव पतिः संवृत्त इति वादिनी नायिका सखी वक्ति संतापमोहकम्पान्संपादयितुं निहन्तुमपि जन्तून् । सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥ ६७७ ।। संतापेति । हे सखि, ज्वरस्येव दुर्जनस्य भूतिरैश्वर्यम् । पक्षे भवनं भूतिः। तापमोहकम्पान्सम्यगुत्पादयितुं जन्तूनितरां हन्तुमपि दूरं प्रसरत्यधिकतरा विति । एवं चैतस्य संपत्तौ जातायां सपन्यादिसंपादनेन दुःखम् , किमस्याने विष्यतीति चिन्ताबाहुल्येन मान्यम्, समधिककोधकरणेन कम्पम् , दण्डदानेन स्माकं प्राणविश्लेषमेवैतदैश्वर्य करिष्यति न परं सुखलेशमपीति व्यज्यते । ज्वरोत्तावपि संतापादिकमतितरां भवतीति चायुर्वेद ॥ विद्यैवाभ्यसनीया त्वयेदानीं न द्रव्ये मनः कर्तव्यमिति कश्चित्कंचिद्वति सुखयतितरां न रक्षति परिचयलेशं गणाङ्गनेव श्रीः । कुलकामिनीव नोज्झति वाग्देवी जन्मजन्मापि ॥ ६७८ ॥ सुखयतीति । श्रीश्येवातिशयेन सुखयति । परिचयलेशं न रक्षति । सरती कुलकान्वेव जन्मजन्मापि न त्यजति । एवं च विद्याभ्यास भावश्यक ति भावः ॥

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284