Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती ।
२६५
ऐरावतमिव हरति । सौधस्य हिमगिरिशिखरसाम्येनात्युच्चत्वं दुष्प्राप्यत्वं च व्यज्यते । एवं च स त्वयानुग्राह्य इति ध्वन्यते ॥
गृहिणीसत्त्वान्न त्वया सह संगतिर्मम चिरस्थायिनीति वादिनीं नायिकां नायको वक्ति
सहधर्मचारिणी मम परिच्छदः सुतनु नेह संदेहः ।
न तु सुखयति तुहिन दिनच्छत्रच्छायेव सज्जन्ती ॥ ६७३ ॥ सहेति । हे सुतनु । एवं च स्पृहणीयत्वं व्यज्यते । मम सहधर्मचारिणी परिच्छदः कुटुम्बकम् । अन्नाच्छादनादिनोपकर णीयेति भावः । इह न संदेहः । तु पुनः सज्जन्ती सेवातत्परा । पक्षे सज्जीभवन्ती । शीतदिवसीयच्छत्रच्छायेव न सुखयति । एवं च सा केवलं कुटुम्बिनीमात्रं त्वं तु रतिसुखदेत्यतस्त्वया सह मत्संगतिश्विरमवस्थायिनीति व्यज्यते ॥
दुष्टसंपर्कात्त्वनिकटे न केऽपि समीचीनाः समायान्तीति कश्चित्कंचिदन्योक्त्या
वक्त—
सकलगुणैकनिकेतन दानववासेन धरणिरुहराज । जातोऽसि भूतले त्वं सतामनादेयफलकुसुमः ॥ ६७४ ॥
सकलेति । हे निखिलगुणैकस्थान भूरुहराज, दानववसत्या त्वं भूतले समीचीनानां न ग्राह्याणि फलकुसुमानि यस्यैतादृशो जातोऽसि । भूतले त्वमित्यनेनं नान्ये महीरुहा एतादृशाः किं तु त्वमेवेति भावः । एवं चैतादृशदुष्टसंगत्या सजाती वृद्धमध्ये त्वया प्रतिष्ठा न विधेयेति व्यज्यते ॥
नायक नायिकां वक्ति—
सुन्दरि ताटङ्कमयं चक्रमिवोद्वहति तावके कर्णे ।
निपतति निकामतीक्ष्णः कटाक्षवाणोऽर्जुनप्रणयी ॥ ६७५ ॥ सुन्दरीति । हे सुन्दरि, त्वदीये कर्णे ताटङ्कस्वरूपं चक्रमिवोद्वहति धारयति सति । पक्षे ऊर्ध्व करोति सति । अत्यन्ततीक्ष्णोऽर्जुनप्रणयी । कृष्ण इत्यर्थः । शुष्क इति वा । पक्षे पाण्डुसुतार्जुनप्रेरित इत्यर्थः । कटाक्षरूपो बाणः । नायकचि - तापहरणादिति भावः । पक्षे तत्तुल्यः । एवं चाकर्णान्तविशाललोचना त्वमसीत्यन्यथासिद्धकुतूह ेन मानापनोदनमभिव्यज्यते । सूर्याराधनसंजातकुन्तीतनयू

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284