Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती।
२६३ संकेतं विधाय कामुकस्त्वदर्थ प्रेषणीय इति न कापि त्वया चिन्ता विधेयेति ध्वन्यते। एवं च गृहपदं सार्थकम् । बहूनां सम्यग्देशरूपमित्यनेन निगूढतया यथेच्छसुरतयोग्यत्वं वन्यते ॥ कथं मयैतादृशसमये समागन्तुं शक्यमित्याशय दूती नायिका वति
संदर्शयन्ति सुन्दरि कुलटानां तमसि विततमषिकल्पे ।
मौलिमणिदीपकलिका वर्तिनिमा भोगिनोऽध्वानम् ॥ ६६७।। संदर्शयन्तीति । हे सुन्दरि, विततमषीतुल्ये तमसि मस्तकमणय एव दीपकलिका येषां ते वर्तितुल्या भोगिनः सर्पाः कामुकाश्च मार्ग सम्यग्दर्शयन्ति । एवं च सर्पफणामणिसंजातप्रकाशेनैव तवाध्वज्ञानं भविष्यतीत्यतो मार्गज्ञानाभावशङ्कामपास्य कार्य साधयेति ध्वन्यते। अथवा नायका एव मस्तकस्थमणिप्रकाशैर्मार्गमादर्शयन्तीत्यनेन नातः परं मयात्रागन्तव्यं किं तु नायक एव त्वामागय संकेतं प्रापयिष्यतीति ध्वन्यते ॥ दुष्टस्योत्कर्षेऽन्येषां क्लेशवत्तैव भवतीति कश्चित्कंचिदन्योक्त्या वक्ति
सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः ।
प्रध्वस्ताः पन्थानो मलिनेनोद्गम्य मेघेन ॥ ६६८ ॥ सर्वमिति । मलिनेन मेघेनोद्गम्य सर्व वनं वनस्थलं तृणपतयाच्छादितम् । सितांशुरविताराः पीता आच्छादिताः । मार्गाः प्रध्वस्ताः । वनमित्यनेन विश्रान्तिदातृत्वप्रतिपादनासितांशुरित्यनेन सौम्यत्वव्यञ्जनादविरित्यनेन निखिलकर्मप्रवर्तकत्वध्वननात्तारयन्तीति व्युत्पत्त्या तारा इत्यनेन सद्बुद्धिदातृत्वद्योतनात्पन्थान इत्यनेनावश्यरक्षणीयत्वदर्शनादेतादृशपुरुषापकारकरणादसमीचीनत्वाविष्करणेन दुष्टपुरुषोदयाशंसनमप्यनुचितं किं पुनस्तत्संपादन मिति व्यज्यते ॥ झटिति मन्त्रो न प्रकाश्य इति कश्चित्कंचिद्वदति
सम्यगनिष्पन्नः सन्योऽर्थस्त्वरया खयं स्फुटीक्रियते ।
स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥ ६६९ ॥ . सम्यगिति । सन् । समीचीनोऽपीत्यर्थः । सम्यक्संपूर्णमसंजातो योऽर्थ'स्त्वरया खयं प्रकटीक्रियते। खयमित्यनेनान्येन प्रकटीकरणे मिथ्यैवार्य गरि

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284