Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 272
________________ २६८ काव्यमाला। वास्तवं तु त्वय्येवासक्तिरिति व्यज्यते । धातुरपि चतुर्मुखत्वेऽपि हृदयस्यैकत्वात् । यद्वा त्वप्रियतमः सर्वसपत्नीषु समबुद्धिरिति वादिनी सखीं नायिका वक्ति-एवं च मय्येवासतिखस्य नान्यत्रेति ध्वन्यते ॥ सुन्दरत्वादिगुणयुक्तः कथं न पराङ्गनासक इति तर्कयन्ती नायिका नायकसखी वक्ति सत्यं मधुरो नियतं वको नूनं कलाधरो दयितः । सतु वेद न द्वितीयामकलङ्कः प्रतिपदिन्दुरिव ॥ ६८१ ॥ - सत्यमिति । सः । इदमग्रेऽप्यन्वेति । मधुरः सुन्दरो मृष्टभाषी वा । इदं सत्यम् । नात्र संदेह इति भावः । एवमग्रेऽपि । एवं च स्पृहणीयत्वमावेद्यते । वको नियतं वक्रोक्तिनिपुणः कुटिलो वा । एवं च पराङ्गनारजकत्वं ध्वन्यते । 'कलाधरः। नूनं निश्चितम् । एवं च पराङ्गनाचित्ताकर्षणनिपुणत्वं व्यज्यते। दयितः । तु पुनः । कलङ्कोऽपवादस्तच्छून्यः प्रतिपच्चन्द्र इव द्वितीयामपरां न वेद । एवं च मधुरत्वादिगुणसत्त्वेऽपि न तादृगन्यः साधुरिति व्यज्यते । प्रतिपञ्चन्द्रोऽपि मधुरो वक्रः कलावानपि निष्कलङ्को द्वितीयाभिधां तिथिं न जानाति । सत्यं नियतं नूनमेभिः पदैर्मधुरत्वादी न संदेह इति प्रतिपादनेन तद्वत्त्वेऽपि तत्कार्याभाववत्त्वेनातिसद्वृत्तत्वं व्यज्यते । न च तस्मिन्यथाकथंचिदन्याहगाचरणसंभावनया कोपकरणं तवोचितमिति प्रतियोगिविशेषानुपादानेन मधुरत्वादौ सर्वप्रतियोगिकत्वेन सर्वाधिक्यमावेद्यते । यद्वा सौन्दर्यादिगुणयुक्तस्त्वद्दयितः कथं नापराङ्गनालम्पट इति वादिनी सखी नायिका वक्ति-एवं चैतादृशनायकवत्तया खस्मिन्नाधिक्यमावेद्यते ॥ दुर्जनस्य खीयपक्षरक्षणमपीति कश्चित्कंचिद्वक्ति खस्थानादपि विचलति मज्जति जलधौ च नीचमपि भजते । निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव ॥ ६८२ ॥ ; खेति । खाङ्गीकृतरक्षणचित्तः सुजनो मैनाकाभिधपर्वत इव खस्थानादपि विचलति । अपिश्चलनानहत्वमावेदयति । परसदनं गच्छतीत्यर्थः । डलयोरक्याजडा मूर्खा धीयन्ते यस्मिन्निति जडसमूहस्तत्रापि मजति । तद्रूपभाग्भवतीत्यर्थः । यद्वा समुद्रपर्यन्तमपि गच्छतीत्यर्थः । एवं च क्लेशागणनमावेद्यते । क्षुद्रमपि भजन आराधयति । एवं च सुजनो यदगीकार करोति तनिर्वाहं खस्यानुचितैरपि

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284