Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती ।
२६१
स्यापि । एवं च दास्यादेः का वार्तेति भावः । व्यजनस्य विशेषचालने शिथिलहस्ताभूत् । एवं च शनैर्व्यजनचालने न किमपि भवतीति भावः । सख्या उद्वर्तनं न समाप्यते । सात्त्विकभावरूपस्वेदातिशयादिति भावः । किंचिदितोऽपसर । किंचिदित्यनेन दूरगमने दुःखं सख्या भविष्यतीति ध्वन्यते । एवं चेयमत्यन्तं त्वय्यासन्तेति ॥
नायिकासखी नायकं वक्ति
सत्रीडा नखरदनार्पणेषु कुपिता प्रगाढमचिरोढा । बहुयाच्ञाचरणग्रहसाध्या रोषेण जातेयम् ॥ ६६१ ॥
1
सव्रीडेति । सलज्जा प्रगाढं नखक्षतदन्तक्षतेषु । कृतेष्वित्यर्थः । कुपितेयं नवोढा । एवं च नखक्षतादिना कोपौचित्यं ध्वन्यते । रोषेण । त्वदीयेनेत्यर्थः । बहुचाटुवचनप्रणिपातसमाधेया जाता । एवं च नवोढात्वेन दन्तक्षताद्यसहनेन कुपितायां नायिकायां तव क्रोधकरणमनुचितमिति भावः । एवं चेदानीं चाटुवचनादिनास्याः कोपमपनय त्वमिति व्यज्यते । तेन च तवैवायमपराध इति ॥
कश्चित्कंचिद्वक्ति—
सुगृहीतमलिनपक्षा लघवः परभेदिनः परं तीक्ष्णाः ।
I
पुरुषा अपि विशिखा अपि गुणच्युताः कस्य न भयाय ॥६६२॥ सुगृहीतेति । सम्यग्गृहीतो दुष्टानां पक्षोऽङ्गीकारो यैः । खित्यनेन त्यागानत्वं व्यज्यते । तेन चोपदेशानर्हत्वम् । पक्षे झटिति निष्कासनानर्हश्यामपक्षवन्त इत्यर्थः । लघवो नीचाः । पक्षेऽल्पपरिमाणवन्त इत्यर्थः । परान्भेदयन्ति ते अन्येषां परस्परभेदजननेन कलहप्रवर्तका इत्यर्थः । पक्षे इतरच्छेदकारकाः । तीक्ष्णाः । क्रूरकर्माण इत्यर्थः । पक्षे यथाश्रुतम् । पुरुषा अपि बाणा अपि गुणच्युताः साधुत्वादिगुणहीनाः । पक्षे गुणो ज्या । कस्य न भयाय । अपि तु सर्वस्य भयायेति भावः । एवं चैतादृशपुरुषसंगतिकरणमनुचितमिति व्यज्यते ॥ दुष्टस्य किमपि कर्म न सम्यक्फलायेति कश्चिद्वति—,
खकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि ।
द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि ॥ ६६३ ॥ खेति । खस्य कपोलेन प्रकटीकृतम्। दानस्य ततोऽप्युत्पत्तेरिति भावः ।

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284