Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२६०
काव्यमाला।
तथा दोषः, तदभावे चैतादृशाचरणेऽत्यन्तमज्ञत्वं व्यज्यते । तेन च प्रीत्यतिशयः। एकवचनमविवक्षितमिति ऋजवः । एवं चैतादृशी रीतिः, अतस्त्वयापि मीतिमुत्सृज्य यथेष्टाचरणं विधेयमिति ध्वन्यते ॥ संजातोऽयं संकेतकाल इति काचित्कांचिद्वक्ति
सायं कुशेशयान्तर्मधुपानां निर्यतां नादः। मित्रव्यसनविषण्णैः कमलैराकन्द इव मुक्तः ॥ ६५८ ॥ सायमिति । सायं निर्गच्छताम् । भावकमलसंकोचभियेति भावः । मधुफनाम् । एवं चोन्मत्तत्वं ध्वन्यते । कमलान्तर्नादो मित्रस्य सूर्यस्य । विकासकत्वान्मित्रत्वम् । व्यसनमतस्तेन खिनः कमलैराकन्द इव मुक्तः । एवं च नायकः संकेतोत्सवेन वयस्यैः सह मधु पीत्वा कामबाधाव्यसनमनुप्राप्त आस्ते, इदं तु मित्रदुःखदुःखितैस्तद्वयस्यैरेवाभिहितम्, अतस्त्वरय संकेतकाल एव झटिति तत्र गन्तुमिति व्यज्यते ॥ नायको वति
सुमहति मन्युनिमित्ते मयैव विहितेऽपि वेपमानोरुः ।
न सखीनामपि रुदती ममैव वक्षःस्थले पतिता ॥ ६५९ ॥ सुमहतीति । मयैव । एवं च नान्यस्यापराध इति व्यज्यते । अत्यन्तमहत्तरे मन्युकारणे विहितेऽपि कम्पमानोरू रुदती ममैव हृदयस्थले । स्थलपदं विशालतां गमयति । यद्वा कृत्रिममपि समाधानं न कृतं मयेति व्यज्यते । सुप्ता । न सखी. नामपि । सखीपदं वक्षःस्थलखापयोग्यतां गमयति । अपितस्मिन्नावश्यकतामावेदयति । यद्वा न सखीनामपि । सपत्नीनामित्यर्थः । समक्षमित्यध्याहारः। मयैव मन्युनिमित्त विहितेऽपीत्यादि प्राग्वत् । एवं च सपत्नीसमक्षकृतापराधस्यातिदुःखदत्वमिति भावः । अथवा सखीनामपि । अपिर्नायिका समुच्चिनोति । मन्यु. निमित्ते मयैव विहिते मम वक्षःस्थल एव न पतितेति काकुः । स्थल एवेयनेनासन्तसरलत्वं व्यज्यत इत्यर्थः। एवं च मदानातुल्या नान्याङ्गनेति ध्वन्यते ॥ काचित्कांचिद्वक्ति
सुमग व्यजनविचालनशिथिलभुजाभूदियं वयस्यापि ।
उद्वर्तनं न सख्याः समाप्यते किंचिदपगच्छ ॥ ६६०॥ सुभगेति ! हे सुभप । एतादृशाजनासमासफिमत्त्वादिति भावः । इयं वय

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284