Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती।
२५९
प्रीतिप्रचुरे । पक्षे रसो जलम् । आशयेऽन्तःकरणे । पक्षेऽभ्यन्तरे । सिन्धोराशये वडवार्चिरिव निरन्तरं लव वसन्ती मनागप्यातां स्निग्धताम् । पक्षे सजलतां न भजसि । एवं च स तु त्वय्यत्यन्तमासक्तः, वं तु रूक्षतामेव भजसीत्यनुचितं तवेदमिति ध्वन्यते॥ नायिका दूती वक्ति
सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने ।
वन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥ ६५६ ॥ सखीति । हे सखि । एवं चैतादृशसंबुद्ध्या तुष्टा झटिति कार्य करिष्यतीत्यतो दूतीपदानुपादानम् । सूर्योद्गमनप्रमृति सुखमाच्छाद्य । 'मिहिरोदयसमयप्रमोदम्' इति कचित्पाठः । वन्ध्यो निष्फलः । नायकागमनाभावात् । अवधिवासर इव सोऽयं हिमदिवसः समाप्तौ कदर्थयति । यथावधिदिवसे प्रातरद्यायास्यति दयित इत्यानन्दः सायं च प्रियतमानागमे प्रातःकालीनसुखोपमर्दैनात्यन्तं दुःखं भवति तथा हिमदिवसे प्रातः सूर्यरश्मिभिः संजातं सुखं दूरीकृत्य सायंतनसमये शीतदुःखमत्यन्तं भवतीति भावः । एवं च रात्रिरियमत्यन्तदीर्घा नैकाकितयातिवाहयितुं शक्येत्यतः संयोजयान्यनायकेन मामिति ध्वन्यते । यद्वा तुषारदिवस इवावधिदिवसोऽवसाने कदर्थयति । एवं चैतावत्कालं मया प्राणा निरुज्य स्थापिताः, इदानीं दयितानागमननिर्णये नैते मया निरोढुं शक्या अत एतद्रक्षणं यथा भवति तथा यतखेति सखी प्रत्युक्तिः । एवं चाग्रेऽन्यादृशाचरणे नाहं भवत्या निषेधनीयेति व्यज्यते ॥ दूती नायिका वक्ति
सुरभवने तरुणाभ्यां परस्पराकृष्टदृष्टिहृदयाभ्याम् ।
देवार्चनार्थमुद्यतमन्योन्यस्यार्पितं कुसुमम् ॥ ६५७ ।। सुरेति । परस्पराकृष्टदृष्टिचित्ताभ्याम् । 'चक्षुरागः प्रथमं तदनु चित्तासङ्गः' इत्युक्तत्वात्प्रथमं दृष्ट्युपादानम् । तरुणाभ्यां देवालये देवपूजार्थमुद्यतं कुसुमं परस्परस्यार्पितम् । सुरभवन इत्यनेनावश्यकधर्माधर्मविवेककरणौचित्यमावेद्यते। जनसंमर्दो वा । तेन च तदगणनेन साहसातिशयः । देवार्चनार्थमुद्यतमित्यनेन मनुष्यादेर्दातुमयुक्तमित्यावेद्यते । तेन च परलोकभ्रंशमीतिशून्यत्वम् । कुसुममियेकवचनेन बहूनां कुसुमानां सत्त्वेऽन्येनापि देवार्चनस्य संपादयितुं शक्यतया न

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284