Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती।
२५७
पराधम् । सा मत्सखी सर्वप्रकारेणैव रक्तानुरक्ता । त्वयीति भावः । एवकारेण सर्वथान्यथा नाशङ्कनीयमिति व्यज्यते । पक्षे सर्वतो रक्तरूपवती । रागं प्रीतिम् । लौहित्वं गुञ्जव मुखे न वहति । वचनकुशलस्य । एवं च परप्रतारणनिपुणत्वमावेद्यते । पक्षे शब्दोच्चारणनिपुणस्य तव शुकस्येवास्ये केवलं रागः प्रीतिः । पक्षे लौहित्यम् । एवं च सा सर्वात्मना त्वय्यनुरागवती परंतु केवलं न मुखेनानुरागप्रकटनं करोतीति तादृशी न काचिदन्या सरला । त्वं तु केवलं मुखेनैव प्रोतिमाविष्करोषि, अतस्तु शठ इति व्यज्यते । तेन च कथं त्वद्वचनं मया विश्वसि. तव्यमिति ॥ काचित्कांचिच्छिक्षयति
सायं कान्तमुजान्तरपतिता रतिनीतसकलरजनीका ।
उपसि ददती प्रदीपं सखीभिरुपहस्यते बाला ॥ ६५०॥ सायमिति । सायं संध्यासमये कान्तस्य भुजयोर्मध्ये पतिता । मध्यपदेन निःसारणानहत्वं व्यज्यते। पतितेत्यनेन तस्या नापराध इति ध्वन्यते । रत्या नीता निखिला रात्रिर्यया । एवं च कान्तभुजान्तरपतने रतेर्निवारणाशक्यतया तस्या नापराध इति भावः । प्रातः प्रदीपं ददती । रात्र्यपगमाज्ञानादिति भावः। उपसर्गेण बहलतैलादिदानेनेदानीमेव सायंतनसमयः संवृत्त इति ज्ञानवत्त्वमावेशते । सा बाला सखीभिरुपहस्यते । एवं च गृहकृत्यं यामिनीप्रथमयाम एव विधाय पश्चात्कान्तसदनं प्रविशेति ध्वन्यते ॥ नायको दूती वक्ति
सा तीक्ष्णमानदहना महतः स्नेहस्य दुर्लभः पाकः ।
त्वां दर्वीमिव दूति प्रयासयन्नमि विश्वस्तः ॥ ६५१ ॥ सेति । हे दूति, स तीक्ष्णो मानरूपो वहिर्यस्या एतादृशी बहुलस्य मेहस प्रीतेः । अथ च तैलस्य । पाकः परिपाको दुर्लभो भवति । दीमिव त्वां प्रयासयन्गमनागमनव्यापारशालिनी कुर्वन् । पक्षे आलोडयन् । विश्वासं प्राप्तोऽस्मि । अत्यन्तमानशालिन्यातस्याः स्नेहावस्थितिर्दुर्लभा परंतु त्वदीयपरिश्रमेण सा भवित्रीति भावः । एवं च लदेकसाध्या तत्प्रीत्यवस्थितिरिति व्यज्यते । तीक्ष्णमौ बहुतरस्नेहपरिपाकोऽपि दींचालनं विना दुर्लभो भवति ॥
१७ आ० स०

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284