Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 259
________________ आर्याससकती। २५५ प्रणमति नमस्करोति । पक्षेऽत्यन्तं नमीभवति । एवं च सामान्यवनितात्वेन द्रव्यमात्रेच्छयेयं खासदृशं नायकं न भजतीति भावः । एवं च द्रव्यवत्तामात्रेण त्वया गर्वो न विधेय इति व्यज्यते ॥ नायिकासखी नायकं वकि सर्वसहां महीमिव विधाय तां बाष्पवारिमिः पूर्णाम् । भवनान्तरमयमधुना संक्रान्तस्ते गुरुः प्रेमा ॥ ६४४॥ सर्वसहामिति । अत्र संबुद्धिपदानुपादानं क्रोधवत्तामावेदयति । सर्वसहाम् । त्वत्कृतसर्वापरावसहनशीलामित्यर्थः । पक्षे तदभिधानाम् । बाष्पजलपरिपूर्णाम् । पक्षे जलपूर्णाम् । महीमिव तां विधाय तेऽयं गुरुः श्रेष्ठः । पक्षे बृहस्पतिः । प्रेमाधुना भवनान्तरम् । नायिकान्तरमित्यर्थः । पक्षे राश्यन्तरमित्यर्थः । संक्रान्तः । एव च त्वदीयसर्वापराधसहनशीलां रुदतीमेतामतिसरलां विहायान्यत्रासक्किं करोषीति त्वादृशोऽन्यो न दुष्टतर इति व्यज्यते । तेन च त्वयेत्यं न विधेयमिति । बृहस्पतिचलने चातिवृष्टिर्भवतीति ज्योतिःशास्त्रसिद्धान्तः॥ कश्चित्कंचिद्वक्ति- । संभवति न खलु रक्षा सरसानां प्रकृतिचपलचरितानाम् । अनुमति हरशिरस्यपि भुजंगपरिशीलनं गङ्गा ॥ ६४५॥ संभवतीति । सरसानां शशाररसवतीनाम् । पक्षे रसो जलम् । खभावचञ्चलाचरणानाम् । पक्षे चरितं वर्म । रक्षणं न संभवति । कुत इत्यत आहहरशिरस्यपि । किमुतान्यत्रेति भावः । गङ्गा । एवं चैतादृशाकर्तव्यता नोचितेति व्यज्यते । भुजगपरिशीलनम् । अथ च खिसंभोगम् । अनुभवति । एवं चातिरक्षणादेः सत्त्वादेतस्याः सङ्गः कथं भविष्यतीति मनसि न कापि चिन्ता त्वया विधेयेति व्यज्यते ॥ बहुनायकावल्लभं खयं वाञ्छन्तीं कांचित्काचिद्यन्तरेण वक्ति सुलभेषु कमलकेसरकेतकमाकन्दकुन्दकुसुमेषु । वाञ्छति मनोरथान्धा मधुपी सरधनुषि गुणाभावम् ॥६४६॥ सुलमेष्विति । कमलप्रमृतीनि यानि कुसुमानि तेष्वनायासलभ्येषु सत्सु मनोरथेनान्धा मधुपी मदनधनुषि मौर्वीभावम् । अथ चाप्रधानभावम् । वाञ्छति। कुसुमपदेन परिमले बहुलत्वं व्यज्यते । मधुपीपदेनाइत्वं द्योत्सते। मदनधनुषी

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284