Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासतशती।
२५१
भावः । एतादृशस्त्वं नखाङ्क इव यद्विरज्यसे विरको भवसि । पक्षे रुधिरशून्यः । इयं कालपरिणतिः । एवं चेदानींतनकालस्यैवायमपराधो न तवेति भावः । नखाकोऽपि बहुकालेन शुष्को भवति । यद्वा यद्विरज्यसे इयं कालपरिणतिरिति काका चिरकाउसंगतेरिदं फलमित्यर्थः । एवं च यथा यथा चिरकालीनसंगतिस्तथा तथा सतां प्रीत्युत्कर्षः खलानां पुनरन्यथाभाव इति भावः ॥ नायिकादूती नायकं वक्ति
सा विच्छाया निशि निशि सुतनुर्बहुतुहिनशीतले तल्पे ।
ज्वलति त्वदीयविरहादौषधिरिव हिमवतः पृष्ठे ।। ६३८ ॥ सेति । विच्छायान्यादृशाङ्गकान्तिमती । पक्षे छायाशून्या । प्रकाशशालित्वादिति भावः । त्वद्विरहात्सा सुतनू रात्रौ रात्री बहुहिमतुल्यशैत्यशालिनि । पक्षे बहुतुहिनेन । शीतले । तल्पे हिमालयस्य पृष्ठे औषधिरिव ज्वलति । एवं च दिवा लोकमीत्या संगुप्ता तदीयवेदना न ज्ञायतेऽस्मामिर्यामिन्यां तु तदीयवेदना विज्ञायत इति व्यज्यते । हिमवत्पृष्टोपमानेन तस्याः कोमलतल्पोऽपि कार्कश्यमाविष्करोतीति व्यज्यते ॥
नायिकासखी नायकं वक्ति___ सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।
सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव ॥ ६३९ ॥ सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं ध्वन्यते । यद्वा सुन्दरसखीत्येकं । नीरसे । रसः प्रीतिः । पक्षे तेजोमयत्वानीरसत्वम् । तव हृदि सा सुन्दरी सूर्यबिम्बे चन्द्ररेखेव प्रविशति, निर्याति, स्थैर्य न लभते । एवं चास्थिरप्रकृतिस्त्वमेवासीति व्यज्यते ॥ काचित्काचिदन्योक्त्या वति
सुकुमारत्वं कान्तिनितान्तसरसत्वमान्तराश्च गुणाः ।
किं नाम नेन्दुलेखे शशग्रहेणैव तव कभितम् ॥ ६४०॥ सुकुमारत्वमिति । हे चन्द्ररेखे, सौकुमार्य शोभात्यन्तसरसत्वमाभ्यन्तराश्च गुणा इति ते शशाङ्गीकारेणैव । अथ च शशजातीयपुरुषासक्त्या नाम निश्चयेन किं न कथितम् । अपि तु सर्व कथितमित्यर्थः । एवं च यदि त्वयि सौकुमार्यादयो गुणाः स्युखदा कथमीदशे पुरुष समासक्तिः कृता स्थात्, अतस्त्वयि गुणा न

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284