Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 258
________________ काव्यमाला। सन्तीति व्यज्यते । अथवा शशप्रहेण । एवं चैतादृशपुरुषसंबन्धात्तव सर्व गुणादिकमनर्थकमेव संवृत्तमिति द्योत्यते । यद्वा सौकुमार्यादिगुणवत्तया पद्मिनीत्वमावेद्यते । पग्रिनिनायकायाः शशजातीयपुरुषयोग एव समुचित इति कामशास्त्रम् ॥ इतरगुणापेक्षया सवृत्तमेवाधिकतरमिति कश्चित्कंचिद्यन्तरेण वक्ति सौरभ्यमात्रमनसामास्तां मलयदुमस्य न विशेषः । धर्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः ॥ ६४१ ॥ सौरभ्येति । सौगन्ध्यमात्रेच्छावता मलयाचलवक्षेषु । एवं च सर्वत्र सौगन्ध्यसत्त्वमिति भावः । न विशेषः । खेप्सितसौगन्ध्यस्य सर्वत्र सत्त्वादिति भावः । धर्मेच्छावतां तथापि सौगन्ध्यरूपसाधारणधर्मवत्त्वेऽपि पूजार्थमश्वत्यो गवेष्यः । एवं च पाण्डित्यादिगुणस्य सर्वत्रकरूपसत्त्वेऽपि सद्भिः सद्त्तवत एवादरः क्रियत इति व्यज्यते ॥ कश्चित्कंचिदकि संवाहयति शयानं यथोपवीजयति गृहपति गृहिणी । गृहवृतिविवरनिवेशितदृशस्तथाश्वासनं यूनः ॥ ६४२ ॥ संवाहयतीति । गृहिणी । एवं च खाधीनत्वमावेद्यते । शयानं गृहपतिम् , न तु प्रियं यथा संवाहयति उपवीजयति च। उपसर्गेण समीरणे मन्दत्वमावेद्यते । तेन च खापे सत्वरभवनयोग्यत्वम् । सदनभित्तिरन्ध्र निवेशिता दृग्येन तस्य यूनः । एवं च स्पृहणीयत्वमावेद्यते । तथाश्वासनं भवति । एवं चैतादृशोपायनिबन्धनखत्खापसंपादनं मत्सविधागमनहेतुभूतमिति ज्ञानादिति भावः । एवं च स्त्रीणां विश्वासः केनापि न कार्य इति व्यज्यते ॥ 'कथमियं ममानादरं कुरुते' इति वादिनं कंचन वारवनितासखी वक्ति सत्यं खल्पगुणेषु खब्धा सहशे पुनर्भुजंगे सा। अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव ॥ ६१३ ॥ सत्यमिति । हे सुन्दर । एवं चेतरगुणवत्ताभावो व्यज्यते । खल्पगुणेषु सा स्तब्धा । न नमेत्यर्थः । इदं सत्यम् । पक्षेऽल्पमौर्व्यामित्यर्थः । सदृशे तु । खगुणैरिति भावः । पक्षे महत्तरत्वादिति भावः । भुजंगे खिो । पक्षे सपै । अर्पितकोटिः । दत्तकोटिसंख्याकवसुरित्यर्थः । पक्षे दत्ताप्रभागा । हरचापयष्टिरिव

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284