Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 255
________________ अर्यायाती। 'सा पहिलाकामिणी काय त्वया सह मया संगमनीया' इति वादिनी सखी सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा । सोत्कम्पेन मया सखि दृष्टा सा माधति स यथा ॥ ६३३ ।। सुनिरीक्षितेति । हे सखि । सा उत्कृष्टकम्पसहितेन । एतस्याः पतिर्द्रक्ष्यतीति धियेति भावः । सोत्कम्पेनेत्यनेन सेके चमत्कारपूर्वकत्वाभावो व्यज्यते । मया सिक्का । जलेनेति भावः । यादृग्घृष्यति स्म, मत्ता बभूवेति वा, ताइक्सुष्टु समीचीनविलोकनकारी निश्चलहस्तो यः प्रियतमस्तेन धाराजलसिक्का न माद्यति स्म । सुनिरीक्षितेखादिना सेके चमत्कारपूर्वकत्वमावेद्यते । एवं च सा मय्यनुरकेति विज्ञायते । अतः सा त्वया मया सह संगमनीयेति व्यज्यते ॥ दूती नायिका वति सखि मोघीकृतमदने पतिव्रते कस्तवादरं कुरुते । नाश्रौषीभगवानपि स कामविद्धो हरः पूज्यः ॥ ६३४ ॥ सखीति । हे सखि । एवं च हितोपदेशार्हत्वं धन्यते । निष्फलीकृतमन्मथे, पतिमात्रानुरागिणि, तवादरं कः कुरुते । न कोऽपीत्यर्थः । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-भगवानपि स हरः शिवश्चतुर्दशी कामस्त्रयोदशी तद्वेधवान्पूज्यः । एवं च केवलस्य पूजानर्हत्वेऽपि तदभावेन कामविद्धतयैव पूजार्हता हरस्य तत्र का वार्तान्यस्येति भावः । एवं च यत्राचेतनरूपस्य शिवचतुर्दशीदिवसस्यापि कामाभिधानत्रयोदशीविद्धतयैव पूज्यताभिधानं धर्मशास्त्रे तत्र का वार्ता सचेतनस्य लोक इति व्यज्यते ॥ नायको नायिका वकि सा मयि न दासबुद्धिर्न रतिर्नापि त्रपा न विश्वासः । हन्त निरीक्ष्य नवोढां मन्ये वयमप्रिया जाताः ॥ ६३५॥ सेति । हन्त खेदे । नवोढां दृष्ट्वा वयमप्रिया जाता इत्यहं मन्ये । यतो मयि । इदमग्रेऽप्यन्वेति । सा दासबुद्धिने । पूर्व यथा मय्यनुप्रहस्तथा नाधुनेत्यर्थः । सा रतिः प्रीतिर्न । पूर्ववत्प्रीतिर्नेत्यर्थः । सा । मन्मथविकारजेति भावः । लज्जा न । पूर्व प्रियतमोऽयमिति बुद्ध्यान्यसमझ लवां कुर्वती स्थितेदानीं तदुग्धभावात्तदभाववती वृत्तेति भावः । कचित् 'नापत्रपा' इति पाठः । स विश्वासो न ।

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284