Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 253
________________ आर्यासप्तशती। २१९ मायकः सखायं वक्ति स्तनजघनद्वयमस्या लचितमध्यः सखे मम कटाक्षः। नोज्झति रोधखत्यास्तटद्वयं तीर्थकाक इव ॥ ६२७ ॥ . स्तनेति । हे सखे, तीर्थसंबन्धिकाको नद्यास्वटद्वयमिव लचितो मध्यः कटिफैन । सूक्ष्मत्वादिति भावः । पक्षे लङ्कितप्रवाहः । मम कटाक्षतस्या उन्नतम् । तटद्वयविशेषणमप्येतत् । स्तनजघनम् । प्राण्यङ्गत्वादेकवद्भावः । नोज्झति । तीर्थकाक इत्यनेन कटाक्षे काकोपमेयतया नायिकायां तीर्थरूपत्वप्रतिपादनेन प्राक्तनकृतसुकृतसमूहैकलभ्यत्वं नायिकायामावेद्यते । लवितमध्य इत्यनेन मध्यपाते जीवनमेवासंभवीति व्यज्यते । तस्याः स्तने कदाचिजघने वा दृष्टिर्ममावतिष्ठते नान्यत्रेति भावः । एवं च तस्यामासतिस्त्वया न विधेयेति नाहमुपदेष्टव्य इति व्यज्यते ॥ नायकः सखायं वक्ति सव्रीडस्मितमन्दश्वसितं मां मा स्पृशेति शंसन्त्या । आकोपमेत्य वातायनं पिधाय स्थितं प्रियया ॥ २८ ॥ सवीडेति । आ ईषत्कोपमेत्य लजास्मितकिंचिच्छृसितसहितम् । सख्यादिविलोकनालना । कथमयमकस्मादेव पश्यन्तीषु सखीषु ताहगाचरणप्रवृत्त इति मयेन स्मितम् । मन्मथाविर्भावाच्च मन्दश्वसितम् । मां मा स्पृशेति कथयन्या प्रियया वातायनं पिधाय स्थितम् । एवं च सख्यादिदृगविषयतासंपादनेन यथेच्छरत्यनुमतिर्दत्तेति ध्वन्यते। तेन चैतादृशी नान्या चतुरेति ॥ नायकः सखायं वक्ति सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम् । तस्याः सुरतं सुरतं प्राजापत्यऋतुरतोऽन्यः ॥ ६२९ ॥ सकरेति । करग्रहणसहितम् । निषेधार्थमित्यर्थः । सरुदितम् । असह्यत्वज्ञापनायेति भावः । साक्षेपम् । ईदृशे कर्तव्ये कथमनीदृशं विधीयत इत्याक्षेपसहितमित्यर्थः । नखमुष्टिसहितम् । जेतुमिच्छा जिगीषा तत्सहितम् । सकरप्रहं सरुदितमित्यनेन नायककामसंदीपननिपुणत्वमथवा कोमलाङ्गीस्वम् , साक्षेपमित्यनेन कामतअनिपुणत्वम् , सनखमुष्टि सजिगीषमित्यनेन रसनिमममानसत्वं नायिकायामा

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284