________________
२४८
'काव्यमाला।'
मात्रात् । एवं च किंचित्कालोत्तरं किमनेन विधेयमिति न विद्म इति व्यज्यते । पक्षे रतादिजन्यावस्था वक्तुं न शक्येति व्यज्यते । खेदं करोति । निद्रां कर्तु च मे न ददाति । जघनसंबन्धि वसनमपि क्षणमपि न क्षमते । उभयत्र जघनवसनसत्त्वमावश्यकं तदभावे का वार्तालंकरणादीनां का च वार्ता पण्टिकादीनामिति भावः । एवं च प्रतिक्षणदृढतररतकारी मत्प्रिय इति व्यज्यते । एवं चैतादृशनिदाघकाले प्रियतममन्तरा नावस्थातुं शक्यम्, अतस्त्वरख तदानयनार्थमिति ध्वन्यते ॥ दूती नायकं वक्ति
सा भवतो भावनया समयविरुद्धं मनोभवं बाला ।
नूतनलतेव सुन्दर दोहदशच्या फलं वहति ॥ ६२५ ॥ सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं व्यज्यते । यद्वैतद्दोहदविशेषणम् । नूतनलता । नूतनपदेन चिरभाविफलयोग्यत्वं द्योत्यते । दोहदस्य शक्त्या फलमिव सा बाला भवतो निरन्तरचिन्तनेन समयविरुद्धम् । बाल्ये हि मनोभवोद्रेकवत्त्वं विरुद्धमिति भावः । फलविशेषणमप्येतत् । मन्मथं वहति । एवं च सा मदनकलाकलापानभिज्ञेति न मन्तव्यं त्वयेति व्यज्यते । तेन चाभुक्तभोगानाधिकं किमपि सुखम, अतस्त्वरख तद्दर्शनायेति ॥
नायकं नायिकासखी वकिस्पृश्यति नखैन च विलिखति सिचयं गृहाति न च विमोचयति । न च मुञ्चति न च मदयति नयति निशां सा न निद्राति॥६२६॥ स्पृशतीति । सा नखैः स्पृशति न च विलिखति । नखाप्रस्पर्शसंपादनेन मदनवत्वं नखक्षताधकरणेन लज्जावत्त्वमावेद्यते । सिचयम् । तत्करकलितमिति भावः । गृह्णाति न च विमोचयति । गृहातीयनेन लज्जावत्वं न विमोचयतीत्यनेन मदनवत्त्वं ध्वन्यते । न च मुञ्चति । गन्तुं न प्रयच्छति न वा गच्छत्तीत्यर्थः । न च मदयति । न मदयतीत्यनेन मान्मथस्पष्टचेष्टाद्यकरणेन लज्जावत्त्वं व्यज्यते । निशामतिवाहयति न निद्राति । तूष्णीं निशातिवाहनेन लजावत्त्वं निद्राद्यविधानेन मन्मथवत्त्वं बोत्यते । एवं च मध्याखभावादियमेतादृश्ची न तु कोपादिमतीत्यतो मीतिमुत्सृज्यवां निगृय खामिलषितं संपादयति धन्यते