Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२३६
काव्यमाला।
मय्येतादृशानुरागवान्यचिरकालीनमार्गेणागतोऽप्यवश्यविज्ञेयपत्तनादिज्ञानाभाववानिति मनायकतुल्यो न त्वनायको न वा मत्तुल्या त्वमिति ध्वन्यते । यद्वा प्रिये मानादिकं त्वया विधेयमिति वादिनी सखी नायिका वक्ति-सखीति। शृण्वित्सस्यानुपादानेऽपि श्रवणक्रियाप्रतीतेरनुपयुक्तार्थतया ऋण्विति पदमवधारणं लक्षयति ।। एवं च मदुक्तौ नाप्रामाण्यमाशझमिति ध्वन्यते । एवं च मनिममचित्ततया प्रियतमः खयमुल्लहितवमंस्थितानेककौतुकनिधाननगरादिज्ञानाभाववान् , अत एतादृशे मानादिविधानेन दुःखजननमनुचितमिति द्योत्यते ॥ वियोगिन्याः सायंतनसमयोऽत्यन्तदुःखद इति नायिका सखी वक्ति
सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः ।
इदमपि तम समूहं सोऽपि नभो निर्भर विशति ॥ ५९६ ॥ सायमिति । अत्र सखीति पदानुपादानं तावद्वर्णोच्चारणेऽपि कालातिपातो भवतीति भाविसायंतनसमयस्यातिदुःखदत्वमित्यावेदयति । सायंतनसमये सूर्योऽनलं विशति । असावनलो मन्मथशरं विशति । स च मन्मथशरो विरहिणीचेतो विशति । इदमपि विरहिणीचेतोऽपि तमःसमुदायम् । तमःशब्देनाज्ञानं ध्वान्तं च । सोऽपि तमःसमूहोऽप्यतिशयेन नभो विशति । अनलेत्यादि पञ्चपदद्वितीयया कर्मत्वप्रतिपादनादीप्सिततमत्वेन खेच्छया तत्र तत्र तस्य तस्य कृतप्रवेशस्य निवारणानहत्वमावेद्यते । एवं च यथा यथा रात्रिर्गमिष्यति तथा तथा मञ्चेतसः शून्यरूपता भवित्रीति धरित्रीतले त्वदृते नान्यां मम प्राणप्रदां मन्य इत्यतस्त्वरखाधुनैव प्रियतमानयनार्थमिति ध्वन्यते ॥ काचित्कंचित्संकेतं वक्ति
स्मरसमरसमयपूरितकम्बुनिभो द्विगुणपीनगलनालः ।
शीर्णप्रासादोपरि जिगीषुरिव कलरवः कणति ॥ ५९७ ॥ सरेंति । मदनयुद्धसमये । 'मदनवीरसमर' इत्यपि पाठः । पूरितो यः शतखत्तुल्यद्विगुणितपुष्टकण्ठनालः कपोतो जयेच्छावानिव जर्जरप्रासादोपरि कूजति । शीर्णपदेनान्यानारोहणीयत्वं ध्वन्यते । प्रासादपदेन श्रमापनोदकसमीरणवत्तया निर्भररतसंपादनयोग्यत्वं व्यज्यते । उपरिपदमन्यानवलोकनीयत्वमावेदयति । कलरवपदेनोद्दीपकत्वं द्योत्यते ॥

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284