Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 247
________________ आर्यासतशती। २१३ देन जाज्यं तेन च यथार्थज्ञानशून्यत्वं तेन चैतद्वचनमप्रमाणमिति व्यज्यते । निवारणानहत्वं वा । मुखरितेत्यनेन वचस्युपेक्षणीयत्व व्यज्यते । एवं च नायको नेतस्यामनुरको न वा तत्कृतानि दन्तक्षतादीनि, किंतु मिथ्येव लोके खसौमाग्यप्रकटनायानया खयमेव संपादितानीति विज्ञाय नायके मानादिकरणमनुचितं तवेति बन्यते॥ काचित्कांचिद्वक्ति सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः । क्षाराखेव स तृप्यति जलनिधिलहरीषु जलद इव ॥ ६१४ ॥ सरित इति । यस्य सदने सरित इव श्रेष्ठान्वयजाताः । पक्षे महत्तराद्रिजन्याः । नार्यः शुष्यन्ति । दुःखोद्रेकवशादिति भावः । स क्षारखेव । नीरसाखेवेत्यर्थः । समुद्रलहरीषु मेघ इव तृप्यति । एवं च यः कुलीनखनायिकासु नामिनदति तस्य नीरसनायिकावाप्तिरेव भवतीति व्यज्यते । यद्वा पराङ्गनालम्पटं नायक नायिका वक्ति-जलनिधिपदेन नीचजन्यत्वमन्याङ्गनासु ध्वन्यते । जलदपदेन नायके मालिन्यं व्यज्यते ॥ नायकदूती नायिका वक्ति सकलकटकैकमण्डिनि कठिनीभूताशये शिखरदन्ति । गिरिभुव इव तव मन्ये मनः शिला समभवञ्चण्डि ॥ ६१५॥ सकलेति।हे निखिलकटकमुख्यभूषणे । पक्षे कटकोऽद्रिनितम्बः। कठोरहृदये। क्षे कठिनी खटिका । पद्मरागरूपरदे । पक्षे शिखरं शाम् । हे कोपने, पर्वतभूमेरिव तव मनः पाषाणः । पक्षे मनःशिला धातुविशेषः । संजात इति तर्कयामि । एवं च भवदेकशरण उचितमात्राचरणप्रवणे निजरमणे नैवंविधं नैष्ठुर्य तव कर्तु समुचितमिति ध्वन्यते । तेन चावश्यं तमनुसरेति ॥ सखी नायिका वक्ति सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि । खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः कोपः ॥६१६॥ सखीति । हे सखि, दुरवगाहः केनाप्युपायेन निवारयितुमशक्यः स चासौ

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284