Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२१४
काव्यमाला।
गहनः । बहुतर इत्यर्थः । पक्षे केनाप्युपायेनाकलयितुमशक्यः कुटिलाशयश्चेत्यर्थः। प्रियजनेऽपि नायकेपि । अपिः करणानहत्वमावेदयति । पक्षे खेप्मितजनेऽपि । एवं च किमुतान्यत्रेति भावः । विप्रियं दुःखं विदधानः । विनतं यन्मुखं तस्योपरि । स्थितः । पक्षे साधोरुपरि स्थितः । साधोः क्लेशद इत्यर्थः । एवं च दुष्टस्य दुष्या द्भीतिः साधुतो नेत्यर्थः । दुष्ट इव तव कोपो दुर्लक्ष्यो ज्ञातुमशक्यः । पक्षे द्रष्टमशक्यः । एवं चैतादृशकोपकरणमनुचितं तवेति ध्वन्यते । “विनयमुखोपस्थितः' इति पाठे विनयो मुखेप्रतो यस्यैतादृश उपस्थितः। जात इत्यर्थः । एवं चैतादृशविनयप्रदर्शनमप्यन्यादृशमेव मे भातीति व्यज्यते । पक्षे विनयो मुखे यस्य । न तु हृदय इति भावः । दुर्लक्ष्यः । विनयमुखत्वादेवेत्युभयत्र भावः । दुरवगाहेत्यादेः प्राग्नदेव । प्रियजनेऽपि विप्रियं विदधानः । प्रिये विनयप्रदर्शनस्योदासीनत्वादिति भावः । पक्षे प्राग्वत् । हे सखि, खल इव तव कोपः । एवं चैतादृशकोपकरणमनुचितं तवेति भाव इत्यर्थः॥ कथमियमुपरिविवाहोत्सवं नावलोकयतीति वादिनं विदिततद्वृत्तान्तः कश्चिद्वक्ति
खेदसचेलखाता सप्तपदी सप्त मण्डलीर्यान्ती।
समदनदहनविकारा मनोहरा ब्रीडिता नमति ॥ ६१७ ॥ खेदेति । खेदेन । त्वदर्शनजेनेति भावः । सवसनस्नानशालिनी । सप्तपदसमाहाररूपा सप्त मण्डलीरतिक्रामन्ती । मदनरूपो यो दहनस्तस्य यो विकारस्वत्सहिता । चित्तहारिणी । लजिता नम्रीभवति । एवं चानया त्वञ्चित्तमपहृतम् , अत एवाग्निदिव्ये खेदरूपजले सवसनाता सप्तपदीरूपसप्तमण्डलातिक्रमकारिणी मदनरूपामिदाहशालिनी संजाताशुद्धिमत्तया लज्जावशाचोर्ध्वमीक्षत इति भावः । एवं च त्वद्विषयकलबावशादेवमुन्नीयते यदियं विहितेऽपि विवाहे न त्वां त्यक्ष्यतीति व्यज्यते । अन्योऽपि तस्करः संजातदिव्यदूषणः किमिदानीं वक्तव्यं मयेति विगलितधिषणोऽधस्तादेव विलोकयनास्त इति लौकिकम् । यद्वा नायको नायिकासखों वक्ति-एवं चेयं मन्मनोरूपवस्तु हृतवती वैवाहिकच्छद्मदिव्येऽपि शुद्ध्यभाववती समपहृतवस्त्वददती मयेयं भुजपाशेन बद्धा निर्दयं मर्दयित्वा मुट्यभिघातैरुरसि ताडयित्वा दन्तनखक्षतैश्च क्लेशभागिनी विधेया तत्रभवत्या नैतत्पक्षरक्षणं क्षणमपि विधेयमिति व्यज्यते । तेन च कृतविवाहामप्येनां न मुञ्चामीति । यद्वा मनोहरा सुन्दरी लजिता नमति । खेदेत्यादिविशेषणस्य सप्तपदीत्यादिविशेषणं हेतुगर्मम् । एवं च नितम्बादिप्राशस्त्यमावेद्यते। लजायां तु खेदादिना

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284