________________
आर्यासतशती।
२१३ देन जाज्यं तेन च यथार्थज्ञानशून्यत्वं तेन चैतद्वचनमप्रमाणमिति व्यज्यते । निवारणानहत्वं वा । मुखरितेत्यनेन वचस्युपेक्षणीयत्व व्यज्यते । एवं च नायको नेतस्यामनुरको न वा तत्कृतानि दन्तक्षतादीनि, किंतु मिथ्येव लोके खसौमाग्यप्रकटनायानया खयमेव संपादितानीति विज्ञाय नायके मानादिकरणमनुचितं तवेति बन्यते॥ काचित्कांचिद्वक्ति
सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः ।
क्षाराखेव स तृप्यति जलनिधिलहरीषु जलद इव ॥ ६१४ ॥ सरित इति । यस्य सदने सरित इव श्रेष्ठान्वयजाताः । पक्षे महत्तराद्रिजन्याः । नार्यः शुष्यन्ति । दुःखोद्रेकवशादिति भावः । स क्षारखेव । नीरसाखेवेत्यर्थः । समुद्रलहरीषु मेघ इव तृप्यति । एवं च यः कुलीनखनायिकासु नामिनदति तस्य नीरसनायिकावाप्तिरेव भवतीति व्यज्यते । यद्वा पराङ्गनालम्पटं नायक नायिका वक्ति-जलनिधिपदेन नीचजन्यत्वमन्याङ्गनासु ध्वन्यते । जलदपदेन नायके मालिन्यं व्यज्यते ॥ नायकदूती नायिका वक्ति
सकलकटकैकमण्डिनि कठिनीभूताशये शिखरदन्ति ।
गिरिभुव इव तव मन्ये मनः शिला समभवञ्चण्डि ॥ ६१५॥ सकलेति।हे निखिलकटकमुख्यभूषणे । पक्षे कटकोऽद्रिनितम्बः। कठोरहृदये। क्षे कठिनी खटिका । पद्मरागरूपरदे । पक्षे शिखरं शाम् । हे कोपने, पर्वतभूमेरिव तव मनः पाषाणः । पक्षे मनःशिला धातुविशेषः । संजात इति तर्कयामि । एवं च भवदेकशरण उचितमात्राचरणप्रवणे निजरमणे नैवंविधं नैष्ठुर्य तव कर्तु समुचितमिति ध्वन्यते । तेन चावश्यं तमनुसरेति ॥ सखी नायिका वक्ति
सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि ।
खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः कोपः ॥६१६॥ सखीति । हे सखि, दुरवगाहः केनाप्युपायेन निवारयितुमशक्यः स चासौ