________________
२१२
काव्यमाला।
रात्र्याः प्रथमे प्रहर इति भावः। वारं वारं दृढं सालिगति। आलिङ्गायिष्यतीत्यर्थः । त्रियामेति विहाय यामिनीपदोपादानेन निखिलजने जागरूकेऽपि सायंतनसमय एव चालिजनादिविधानेन विगलितलज्जात्वं व्यज्यते । पथिकाशंसनमेतत् ॥ काचित्काचिद्वधि
सान्तयं मुजिष्या यथा यथाचरति समधिकां सेवाम् ।
साशइर्ण्यसभया तथा तथा गेहिनी तस्य ॥ ६११ ॥ सान्तर्भयमिति । भुजिष्या दासी तस्य नायकस्यान्तर्भयसहितम् । खामिनी ज्ञास्यतीति धियेति भावः । यथा यथा सम्यगधिकाम् । संमतानुरागवत्वादिति भावः । सेवामाचरति तथा तथा गेहिनी । एवं च गृहकर्मव्यापृततयैतादृशानुचिताचरणज्ञानवैधुर्य व्यज्यते । साशङ्कानर्थप्रतिभासहिता । किमिदानीमियं समधिकां सेवां करोतीति धियेति भावः । सेा समत्सरा । प्रायेणेयमस्मिन्नतिमतीति धियेति भावः । सभया। लोकापवादादिति भावः । अत एव गेहिनीति पदमर्थवत् । एवं च सर्वदा खामिचरणपरिचरणं खयमेव विधेयम्, न तु गृहव्यापारवसादास्यादिनेति ध्वन्यते । तस्याः' इति पाठे नायिकायाः । सान्तर्भयम् । न ज्ञातव्योऽनया नायकीयमत्सङ्ग इति धियेति भावः । इतरत्सुगमम् ॥ नायको नायिकां वक्ति
सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् ।
पतति तथा समदृष्टिस्त्वदेकदासस्य सासूया ॥ ६१२ ॥ सुन्दरीति । हे सुन्दरि, तस्यास्त्वत्सपन्याः सखी भवद्विपक्षस्य त्वत्सपल्याः कान्तिं यथा दर्शयति तथा त्वन्मात्रदासस्य मम । एवं च त्वदतिरिकायाः शोभाकथनं कंयं मया सोढुं शक्यमिति व्यज्यते। सद्वेषा दृष्टिः पतति । अर्थात्त्वद्विपक्षे। एवं च न मयानुरागवशात्त्वद्विपक्षावलोकनं कृतं किं तु क्रोधवशादिति भावः॥ सपत्नीदुःखितां कान्तां नायकसखी वकि
खाधीनरघरवणनखाइपत्रावलोपदिनशयनैः।
सुमगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥६१३॥ खाधीनैरिति । हे सखि, खयं कर्तुं शक्यैर्दन्तक्षतनखक्षतपत्रवाल्लीप्रोञ्छनदिवाखापैः सुभगेसनया । लसपन्येत्यर्थः । समप्रापि पल्ली वाचालीकृता । पल्ली