________________
आर्यासप्तशती।
२११ कपटभावेनैवानयाश्वासनं क्रियते न वास्तवसात्त्विकतयेति कश्चित्कंचिदन्योक्त्या वति
स्थलकमलमुग्धवपुषा सातकाङ्कस्थितैकचरणेन ।
आश्वासयति बिसिन्याः कूले बिसकण्ठिका शफरम् ॥६०७॥ स्थलेति । कमलिन्याः समीपे बलाका सत्रासं कोडे स्थित एकवरणो यस्य तेन स्थलकमलवत्सुन्दरशरीरेण मत्स्य विश्वासयति । एवं च मत्स्यस्य कमलप्रमेण समीपमागमनं भविष्यति ततश्चैतद्भोजनं विधेयमिति धिया तूष्णीमवतिष्ठत इति भावः । एवं चेयं दुधा, अत एतद्विश्वासो न विधेय इति व्यज्यते ॥ कश्चित्कामी दुष्प्रापां नायिकामवलोक्य समीरमुद्दिश्य वक्ति
सनखपदमधिकगौरं नाभीमूलं निरंशुकं कृत्वा ।
अनया सेवित पवन त्वं किं कृतमलयभूगुपातः ॥ ६०८॥ सनखेति । नखक्षतसहितमत्यन्तगौरं नाभीमूलमंशुकरहितं कृत्वानया सेवित पवन, त्वं कृतो मलयाचलकटकात्पातो येन, एतादृशः किमिति वितर्कः । एवं च यदि त्वया भृगुपातो न कृतः स्यात्तर्हि कथमनया विगलितलज्जया सेवितः स्यात्, अतखवैव तपस्याधिक्यमिति व्यज्यते। तेन च त्वमेव धन्य इति । यद्वैतदपेक्षया किमधिकतरफलमस्ति यल्लिप्सया मलयभृगुपातस्त्वया कृत इति प्रश्नः । एवं चैता. दृशसुखादन्यन्न पुरुषार्थरूपमिति व्यज्यते । रतोत्तरमपि समधिककामाविर्भावादतार्थ पुनः प्रवृत्तां कान्तामालोक्याली नायकं वक्तीति वा ॥ अदृष्टवता श्रीस्तावदप्रयत्नेनापि लभ्यत इति क्वचिद्वक्ति
सर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।
अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ६.९॥ सर्वाङ्गमिति । निखिलाङ्गं समर्पयन्ती चञ्चला । अथ च लोलेति श्रीनाम । श्रीविपरीतरतविधायिनीव शय्यायां श्रमेण सुप्तम् । एवं च शय्यादिरचनामात्रोद्योगशालित्वं व्यज्यते । उद्योगरहितमपि । अपिः प्रागप्यन्वेति । यद्वा लोलेत्यत्रान्वेति । अदृष्टशालिनं भजते । पक्षे सुगमम् ॥
सुदिनं तदेव यत्र सारं सारं वियोगदुःखानि ।
आलिङ्गति सा गाढं पुनः पुनर्यामिनाप्रथमे ॥ ६१०॥ मुदिनमिति । तदेव समीचीनं दिनं यस्मिन्विरहदुःखानि स्मृत्वा स्मृती
१६ आ० स०