________________
२४०
काव्यमाला।
पसरसि तथा सुन्दरि, मम हृदयं स्पृशसि । 'षष्ठी पूज्येव' इति पाठे पूज्या षष्टीव वं यथा यथापसरसि तथा सुन्दरि, मम हृदयं स्पृशसि । एवं च यथा षष्ठी यं स्पृशति स न जीवति, तथा कृतषष्ठीपूजया त्वया स्पृष्टं मम हृदयं न स्थिति प्राप्नोतीति व्यज्यते । तेन च ममालिङ्गनचुम्बनादि देहीति ॥ निजदयित एव रतिर्विधेया नान्यत्रेति वादिनी सखी नायिका वक्ति
सखि सुखयत्यवकाशप्राप्तः प्रेयान्यथा तथा न गृही।
वातादवारितादपि भवति गवाक्षानिलः शीतः ॥ ६.५॥ सखीति । हे सखि । एवं च वास्तवाभिप्रायकथनार्हत्वमावेद्यते । अवकाशप्राप्तः । संकेतवशात्समयविशेष समागत इत्यर्थः । प्रेयान्यथा सुखमुत्पादयति तथा निजः प्रेयान । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-अवारितात् । महत इति भावः । वाताद्वातायनसंबन्ध्यनिलः शीतस्तापापनोदकः । एवं चान्यनायकमवश्यमानयेति ध्वन्यते । यद्वा निजदयितानुरक्तां नायिकामन्यदायतेन संयोजयितुं दूती वक्ति-गृहीत्यनेनावारितादित्यनेन च 'अर्थादौषधवत्कामः प्रभुन्वात्केवलं श्रमः । करवस्वेषु दारेषु त्रयादन्यत्र मन्मथः ॥ इतिवत्तुल्यन्यायतया नायिकग्या अप्यधिकानुरागशालिपरपुरुषरतौ सुखातिशय इति द्योयते । अथवा गृहीत्यनेन निर. न्तरसदनावस्थितिशालितया खनायकः परपुरुषाप्राप्तिसमयेऽपि भोक्तुं शक्य इति व्यज्यते । तेन चाधुना तमहमानयामीति ॥ निरन्तरं नितान्तकुपितां नायिकां सखी वक्ति
सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् ।
अवगणितौषधिमन्ना भुजगि रक्तं विरञ्जयसि ॥ ६०६ ॥ सततमिति । भुजंगीव भुजंगी तत्संबुद्धिः । एवं च तवान्तिकागमनेऽपि भीतिरुत्पद्यत इत्यावेद्यते । निरन्तररक्तीकृतवदने । कोपवशादिति भावः । पक्षे खभावत एवारकवदनत्वम् । सखि, विषमिव वाचां गुम्फ गिरन्ती पक्षे गरलं गिरन्ती। अवगणितोषधिमत्रा अवगणितौषधितुल्यविचारा । एवं यथौषधिः पीडाहारकतया सुखकारिणी तथा सविचारा मदुक्तिस्ते हितकारिणी, अहो एनामपि न गणयसीत्यनुचितं तवेति धन्यते । पक्षे औषधमत्रादेरपि न यत्र सामर्थ्यमिति भावः । रकं जनं विरजयसि विरकं करोषि । पक्षे रुधिरवन्तं रुधिररहितं करोषि । एवं चैतादृशकोपवत्तया त्वया यत्रानुरकोऽपि जनोऽनुरागशून्यः क्रियते तत्राननुरकानुरजनं तव दूरापास्तमिति व्यज्यते ॥