________________
आर्यासप्तशती।
२३९
संपर्कबत्त्वादिति भावः । खपदेन भीतिशून्यत्वं नायके, नायिकायां सख्यादिराहिलेन सहायशून्यत्वमावेद्यते । भित्तावित्यनेन निर्गमाभाववत्त्वं घोसते । भवतेसनेन बलात्कारो व्यज्यते॥ नायिकासखी नायकं वक्ति
सा गुणमयी खभावखच्छा सुतनुः करमहायता ।
अमिता बहुमत्रविदा भवता काश्मीरमालेव ॥ ६०३ ॥ सेति । गुणाः सौन्दर्यादयः । पक्षे गुणः सूत्रम् । खभावेन सहजतया शुद्धान्तःकरणा । पक्षे खभावोज्वला । करग्रहेण पाणिग्रहेण खाधीना । एवं च पातिव्रत्यमावेद्यते । पक्षे हस्तेन यदङ्गीकरणं तेनायत्ता । काश्मीरमालेच सुतनुः । एवं स्पृहणीयत्वं द्योत्सते । बहुविचारवता। अत्यन्तकलाकुशलेनेत्यर्थः । पक्षे बहुतरागमोक्तमत्रज्ञेन । एवं च बहुतरजपशालित्वं द्योत्यते । भवता भ्रमिता । एवं च त्वत्संगत्या कदापि नैतस्या विश्रान्तिरिति व्यज्यते । यद्वा सामान्यवनितासखी नायक वक्ति-करग्रहेण खाधीना । न तु द्रव्यादिलोभेनेति भावः । खभावखच्छेत्यनेन सरलत्वं व्यज्यते । बहुमत्रविदानेकप्रकारकविचारवता । एवं च कापव्यशालित्वं द्योत्यते । भ्रमं प्रापिता । एवं चेयं भ्रान्ता त्वामस्थिरप्रकृतिकं भजते, त्वं तु न किमपि वसु ददासीति व्यज्यते । अन्योऽपि मन्त्रवेत्ता कंचिजनं भ्रान्तं विधाय तदीयसर्वखापहारं करोतीति लौकिकम् ॥ नायको नायिका वति
सबीडस्मितसुभगे स्पृष्टास्पृष्टेव किंचिदपयान्ती।
अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ६०४ सवीडेति । हे व्रीडासहितस्मितसुभगे, किंचिस्पृष्टा किंचिदस्पृष्टा । एतादृश्येव । मयेति भावः । आकस्मिकसंजातसंघटनेऽपि लोकमीतिवशादिति भावः । अत एव ब्रीडास्मितवत्ता नायिकायाः । अपसरन्ती त्वं यथा तथा सुन्दरि, अपसरसि तथा मम हृदयं स्पृशसि । एवं चेदानीमहं नानुग्राह्यस्त्वया चेत्तदा न मे प्राणाः स्थास्यन्तीति व्यज्यते । यद्वा स्पृष्टाप्यस्पृष्टैवाहमित्यपसरन्ती यथा यथापसरसि तथा मम हृदयं स्पृशसि । एवं च नाहं त्वया स्पृष्टेति वादिन्यपसरसि हृदयं च स्पृशसीत्यपसरणानर्थक्यम् , अत एह्यालिङ्गख मामिति व्यज्यते । 'स्पष्टीभूत्वेव किंचिदपयान्ती' इत्यपि पाठः । षष्ठी संपूज्य' इति पाठेऽपि प्रसवनिमित्तक एव ब्रीडास्मिते किंचित्षष्ठी संपूज्य । यथाकथंचिषष्ठी पूजयित्वेत्यर्थः । यथा यथा