________________
२३८
काव्यमाला ।
एवं च कोषोऽप्येमिरस्मासु विनिहित इति घिया न सुधिया पिशुनाः सेव्या इति व्यज्यते ॥
1
सरलतया मानाद्यविधायिनीं भामिनीं सखी समुपदिशति -- सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणीनाम् । वामार्धमेव देव्याः खवपु शिल्पे निवेशयता ॥ ३०९ ॥ सौभाग्यमिति । खशरीरस्य चित्रे । शिल्प इत्यनेन कार्याक्षमेऽपि वपुषि वामार्थस्यैवादरः, तत्र का वार्ता कार्यक्षमे वपुषीति व्यज्यते । देव्या वामार्धमेव सव्यसमांशकमेव । देवीदक्षिणशरीरभागस्य शिवरूपत्वादिति भावः । अर्धमित्यनेन दक्षिणैकदेशस्याप्यनिवेशनेन तत्र न केवलमोदासीन्यन, अपि तु द्वेषवत्तेवि ध्वन्यते । स्थापयता हरेण तरुणीनां दाक्षिण्यात्सरलत्वात्सौभाग्यं नेत्युपदिष्टम् । हरपदेन हरति सर्वस्य दुःखमिति व्युत्पत्त्या करुणावतापि भगवतानङ्गीकारेण करुणारहितस्यान्यसर्वनायकस्य दाक्षिण्यं न प्रीतिविषय इति व्यज्यते । यद्वोपदेशदानार्हत्वमथवोपदेशे याथातथ्यम् । एवं च श्लिष्टाभ्यां वामदक्षिणपदाभ्यां कौटिल्यादेव तरुणीनां सौभाग्यं न सरलतयेति ध्वन्यते । तरुणीनामित्यनेनान्त्ये वयसि दाक्षिण्यमुचितमित्यावेद्यते । उपदिष्टमित्यनेनान्यथासंभावनमनुचितमिति ध्वन्यते । एवं च सरलतां विहाय मानाद्यवश्यं त्वया विधेयमिति ध्वन्यते । यद्वा कौटिल्यशालिनं नायकं नायिकासखी वक्ति – खवपुः शिल्पे देव्या वामार्धमेव निवेशयता हरेण दाक्षिण्यात्सौभाग्यं नेति तरुणीनामुपदिष्टम् । न तु पुंसाम् । एवं च स्त्रीणामेव वाम्यकरणमुचितम्, न तु पुंसामिति ध्वन्यते । यद्वा तरुणीनामेवेति योजना ॥
नायिकासखी नायकं वक्ति
सुभग खभवनभित्तौ भवता समर्थ पीडिता सुतनुः ।
सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥ ६०२ ॥
सुभगेति । हे सुभग, खसदनभित्तौ सम्यङ् मर्दयित्वा पीडिता सुतनुवैद्येषु विशेषद्वेषं दधती सा पीडयैव जीवति । एवं च त्वत्कृतपीडा यत्र तस्या जीवन निदानं तत्र किं वाच्यं त्वत्सङ्ग इति व्यज्यते । उत्सववशात्त्वद्भवनमागतां बलादबलां त्वया दृढालिङ्गनादिना संपीड्यानुरागातिशयशालिनीं विधायेदानीमुदासीनवत्स्थीयत इत्येतदनुचिततरं तवेति भावः । सुभगत्वं चाकस्मिकैतादृशनायिका