________________
आर्यासप्तशती।
२३७
फूत्कृत्य रुदतीं सुदतीं सखी शिक्षयति
स्फुरदधरमविरताश्रु ध्वनिरोधोत्कम्पकुचमिदं रुदितम् ।
जानूपनिहितहस्तन्यस्तमुखं दक्षिणप्रकृतेः ॥ ५९८ ॥ स्फुरदधरमिति । स्फुरनधरो यस्मिन् । निबिडबाष्पम् । ध्वनिनिरोधेनोकटकम्पवन्तौ कुचौ यस्मिन् । जानुस्थापित[हस्तन्यस्त]वदनम् । इदमेतादृशाकारशालि रुदितं सरलप्रकृतेः । एवं चैतदन्यथाचरणं तवानुचितमिति ध्वन्यते। 'स्फुरदधरश्वासम्' इत्यपि पाठः । यद्वैतादृशरोदने कस्यापि ज्ञानं न भविष्यतीति फूत्कृत्य रोदनं तवोचितमिति सखी नायिका वक्तिकाचित्सामान्यवनिता कांचित्सामान्यवनितां भजयन्तरेण वक्ति
खयमुपनीतैरशनैः पुष्णन्ती नीडनिवृतं दयितम् ।
सहजप्रेमरसज्ञा सुभगागवं बकी वहतु ॥ ५९९ ॥ खयमिति । स्वयमाहृतैर्भक्ष्यैः कुलायसुखितं दयितं पुष्णन्ती, अकृत्रिमप्रेमरसाभिज्ञा बलाका सौभाग्यशालिनी गर्व वहतु । सुभगेति भिन्नं पदं वा । एवं च यया खद्रव्येण नायकपोषणं क्रियते सैव रसाभिज्ञा सौभाग्यवतीनां गर्वमुद्वहतु नापरस्यास्तद्वहनमुचितमिति ध्वन्यते ॥
दुष्टप्रभुणा कोषाधिकारे दत्तेऽपि प्रभुरयं मय्यतीव विश्वस्त इति धिया तत्सेवनमुचितं नेति कश्चित्कंचिद्वक्ति
खरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम् । पिशुनानां पनसानां कोषाभोगोऽप्यविश्वास्यः ॥ ६०० ॥ खरसेनेति । खेच्छया कर दण्डं बनतां कुर्वताम् । आदाने अर्थात्करादाने कण्टकसमूहैस्तुदताम् । खरसेनेत्यनेन कियदनेन भुक्तं कियनेति शोधशून्यत्वमावेद्यते । कण्टकोत्करैस्तुदतामित्यनेन खेच्छया कृतमपि दण्डं शनैः शनैर्न गृहन्तीति ध्वन्यते । अथ च खस्य रसेन द्रवेण करं हस्तं बधताम् । पनसरसस्य चिकणत्वादिति भावः । कण्टकोत्करस्तुदताम् । पनसस्य कण्टकबाहुल्यादिति भावः। पिशुनानां पनसानां च कोषस्य भाण्डागारस्याभोगः संपर्कः । तद्विषयकाधिकारवृत्त्वादिति भावः । अथ च कोषपरिपूर्णता । सोऽपि । अपिर्विश्वासास्पदत्वमावेदयति । अथ च वृक्षसर्वदेशस्यापि कठिनत्वादिदोषसत्त्वात्समुचायकः। अविश्वास्यः।